089
त एव विनिवेश्यन्ते बीभत्सादौ रसे यदा ।
तदा तं दीपयन्त्येव तेन वर्णा रसच्युताः

 ॥’ इति ।

त्वाष्ट्रा राक्षसास्त्वष्टुरपत्यं वृत्रस्तस्यारिरिन्द्रस्तस्य राष्ट्रे स्वर्गे न सन्ति । भ्राष्ट्रे चणकादिभर्जनस्थाने न कुण्ठदंष्ट्रा भवन्ति । असितचञ्चुचरणा हैमा22 धार्तराष्ट्रा व विद्यन्ते । उष्ट्रिण उष्ट्रोपजीविनः ॥

यत्पादपूरणाद्यर्थमनर्थकमुदाहृतम् ।
गुणत्वमनुमन्यन्ते तस्यापि यमकादिषु ॥ ९३ ॥

यथा—

‘योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम् ॥ १२६ ॥’
बभौ मुखेनाप्रतिमेन काचन श्रियाधिकानां प्रति मेनका च न ॥ १२७ ॥’

अत्र खलुशब्दस्य चशब्दस्य च पादपूरणमात्रेऽपि प्रयोजने यमकत्वाद्गुणत्वम् ॥

यत्पादपूरणेति । द्योतनीयमर्थमन्तरेण प्रयुक्तमव्ययपदमनर्थकमित्युक्तम् । पादपूरणार्थत्वं तु दूषणताबीजम् । आदिग्रहणाद्गद्यपूरणम् । सति तूपयोगे तस्य तद्बिजाभावाद्दोषभावविरहोऽलंकारारम्भे च गुणत्वम् । तदिदमुक्तम्—यमकादिष्विति । आदिशब्दोऽनुप्रासचित्रादिपरः । वाक्यालंकारार्थत्वमपि शब्दालंकारारम्भकत्वमेव । यदाह—‘आर्षार्षिपुत्रकर्षिकवैदिकादिवाक्यानामलंकारहेतवो वाक्यालंकारार्थाः’ इति । तेन—

‘उत्फुल्लकमलकेसरपरागगौरद्युते मम हि गौरि ।
अभिवाञ्छितं प्रसिध्यतु भगवति युष्मत्प्रसादेन

 ॥’ इति ।

अत्र हि प्र इत्येतयोर्न वाक्यालंकारप्रयोजकत्वमित्युक्तप्रायम् । योषितामित्यादाबतितरां नखलूनं योषितां गात्रमुज्ज्वलतया नोनमित्येव पर्याप्ते द्वितीयपादे तदुभयमपि यमकारम्भकं सत्प्रस्तुतोपयोगितया कविव्युत्पत्तिपुरस्कार प्रवृत्तमपजहाति दोषभावमुपादत्ते च गुणत्वमिति ॥

यत्तु रूढिच्युतत्वेन प्रोक्तमन्यार्थसंज्ञितम् ।
प्रहेलिकादिषु प्रायो गुणत्वं तस्य युज्यते ॥ ९४ ॥
  1. ‘हंसा’ ख