091 शब्दविकासे न दोषः, किं तु गुण एव । प्रकृतोदाहरणे द्विरष्टवर्षाकृतिमिति कल्पोपपदं महीरुहमिति च निदर्शनं मन्यन्ते । षोडशादिशब्दानामपि वंशस्थप्रवेशत्वादनन्यगतिकत्वाभावात् । हिरण्यपूर्वं कशिपुमिति तु संगच्छते । नहि हिरण्यकशिपुशब्दोऽत्र प्रविशति । प्रदर्शनार्थं तु द्वयमन्यदप्युपात्तम् । एवंविधः शब्दविस्तरो गुणतामासादयतीत्याशयात् । तेनायमर्थः—पल्लवाख्यशब्दगुणे तावत्तुच्छता चमत्कारकारितया गुणधुराधिरूढैवाविस्तरविविक्तविषयतया क्व विशेषगुणस्य भवतीति जिज्ञासायां तु छन्दोऽनुरोधो विहितः । सोऽपि हि कादाचित्कः करोत्येव दोषभावव्यावृत्तिमिति ॥

प्रतिपादितमादौ यदसमर्थमवाचकम् ।
तस्यापि खलु मन्यन्ते गुणत्वं सीत्कृतादिषु ॥ ९६ ॥

यथा—

‘आशु लङ्घितवतीष्टकराग्रे नीविमर्धमुकुलीकृतदृष्ट्या ।
रक्तवैणिककराहततन्त्री मण्डलक्वणितचारु चुकूजे ॥ १३० ॥’

अत्र कूजितस्य पक्षिणोऽन्यत्रावाचकत्वेऽपि कामशास्त्रेऽनुमतत्वाद्गुणत्वम् ॥

प्रतिपादितमिति । अस्ति कश्चिदेवं विषयो यत्रासमर्थस्य चारुतया गुणभावः । तथा हि—यद्यपि गणपाठादव्यक्तशब्दः कूजितम्, तथापि लोके पक्षिविषय एव नियतम्, तथा चाभिमतविषये प्रयुक्तं पक्षिविरुताकारमावेदयति । 'हारीतप्रभृति—‘ इत्यादिना कामशास्त्रकारैः सीत्कारोपदेशनात् । सीत्कारस्य च चतुःषष्टिकलात्वेन प्रवणतयात्यन्तमुपादेयत्वात् । तदाह—‘अन्यान्यप्याकृतिग्रहणान्युपलक्षयेत्’ इति ॥

शास्त्रमात्रप्रतीतत्वादप्रतीतं यदुच्यते ।
गुणत्वं तस्य तद्विद्यसंभाषादौ विदुर्बुधाः ॥ ९७ ॥

यथा—

‘सर्वकार्यशरीरेषु मुक्ताङ्गस्कन्धपञ्चकम् ।
सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम् ॥ १३१ ॥’