092

अत्राङ्गस्कन्धपञ्चकमित्यस्य शास्त्रमात्रप्रसिद्धस्यापि तद्विद्यसंभाषायां गुणत्वम् ॥

शास्त्रेति । शास्त्रमात्रप्रसिद्धानामाहत्यप्रतीत्यजननेन विवक्षितवाक्यार्थप्रत्ययपरिस्खलनं खेददायी नानामृदुदुष्टताबीजम् । यदि तु कुतश्चिद्विशेषाज्झटित्येव प्रतीतिं जनयेत्तदा कथं दोषः । अस्ति च प्रतिपत्तिव्युत्पत्त्यतिशयलक्षणो विशेषः । तदिदमुक्तम्—तद्विद्येति । मन्त्रणाद्यवसरे औचितीवशात्तत्तत्पदानां गुणत्वमपि निर्वहति । शास्त्रप्रकियापेक्षित्वं गाम्भीर्यम् । शास्त्रव्यवहारसंकेतितपदानां गुणत्वमित्यन्यः प्रकारः । यथावद्विनियोगः कार्यस्तस्य प्रकारसाकल्यं शरीरम्, शब्दच्छलात्कायः, आत्मा सारभूतः क्षेत्रज्ञश्च । कर्मणामारम्भोपायः पुरुषद्रव्यसंपद्देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिरिति पञ्चाङ्गानि । रूपं संज्ञा संस्कारो वेदना विज्ञानमिति पञ्च स्कन्धाः ॥

अर्थप्रतीतिकृद्दूरे क्लिष्टं नाम यदुच्यते ।
झटित्यर्थप्रतीतौ तद्गुणत्वमनुगच्छति ॥ ९८ ॥

यथा—

‘अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः ।
पितुः पदं मध्यममुत्पतन्ती काञ्चीगुणस्थानमनिन्दितयाः ॥ १३२ ॥’

अत्रात्मना पदं शब्दगुणमिति पितुः पदं मध्यममिति चाकाशविषया काञ्चीगुणस्थानं नितम्बविषयमिति सर्वप्रसिद्धेर्झटित्येव प्रतीतिं करोतीति क्लिष्टस्यास्य गुणत्वम् ॥

अर्थप्रतीतिकृदिति । इहापि तदेव दूषणताबीजं झटिति प्रतीतिजनने सति समाधीयते । समाधानोपायश्च पदान्तरसंनिधानमतिप्रसिद्धिः प्रकरणं वा । तथा हि—प्रकृतोदाहऱणे उत्तरार्धे हरिरित्यभिधानादात्मनः पदमिति हरेः पदमिति संपन्नम्, अस्य च सामान्यशब्दत्वादाकाशविषया प्रतीतिर्यद्यपि झटिति नोत्पत्तुमर्हति, तथापि शब्दगुणमिति विशेषणेन पदार्थान्तराद्यवच्छिद्य विवक्षिताभिमुखी प्रतीतिरुपजन्यते । पितुः पदमिति । यद्यपि पदमिति सामान्यं तथाप्याकाशस्यैव मध्यमचरणविन्यासस्थानत्वेन प्रसिद्धेर्न तथोचितप्रतीतिव्यवधानम् । काञ्चीगुणस्थानमिति । चरणादारभ्य वर्णनाक्रमे नितम्ब एव काञ्चीनिवेशनस्योचितत्वान्न प्रती-