093 तिव्यवधानम् । तदिदमुदाहरणत्रयप्रयोजनमुदाहरणादेरनेकोऽत्र वाक्यार्थो गवेषणीयः । कथं तर्हि सर्वप्रसिद्धेरिति ब्रवीति । इत्थं शब्दगुणशब्दस्य बहुव्रीहित्वादवश्यं विशेषपर्यवसानाय प्रसिद्धिरनुसरणीया । अवश्यं न वर्णनक्रमेऽपि काञ्चीगुणस्थानमनिन्दिताया इत्यत्र काञ्चीगुणस्थानशब्दस्य नितम्बविशेषपर्यवसानार्थं कवीनामौचित्यप्रसिद्धिरङ्गीकर्तव्येति । ननु चात्मनः पदं शब्दगुणत्वमित्यत्र प्रसादः कस्मान्न भवति । एवमाह न भवतीति । उदाहरणस्यादूषणत्वात्सामान्यशब्दस्य विशेषपर्यवसानम्, अन्यच्च समभिव्याहृतपदार्थसंसर्गरूपे वाक्यार्थे स्वच्छसलिल इवाभिमतविशेषप्रतिबिम्बनमित्युपाधिद्वयस्य संकराच्च ॥

अप्रसिद्धार्थसंबन्धं यद्गूढार्थमिति स्मृतम् ।
तव्द्याख्यानादिषु प्रायो गुणत्वेन तदिष्यते ॥ ९९ ॥

यथा—

‘अम्हारिसा वि कइणो कइणो 25हलिबुढ्ढसालिपमुहा वि ।
मण्डुक्कमक्कडा वि हु होन्ति हरीसप्पसिंहा वि ॥ १३३ ॥’
[अस्मादृशा अपि कवयः कवयो हरिवृद्धशालिप्रमुखा अपि ।
मण्डूकमर्कटा अपि खलु भवन्ति हरिसर्पसिंहा अपि ॥]

अत्र मण्डूकमर्कटसर्पसिंहेष्वप्रसिद्धप्रयोगत्वाद्गूढस्यापि हरिशब्दस्य स्वयं व्याख्यातत्वाद्गुणत्वम् ॥

अप्रसिद्धार्थसंवन्धमिति । तस्य गुणार्थस्य व्याख्यानं तव्द्याख्यानम् । अत्राप्यतिप्रसिध्द्याकृष्टस्यानतिप्रसिद्धार्थप्रतीत्यकरणं दुष्टताबीजमभिधानीयम्, तत्तु प्रतीतिपर्यवसानादेव निवर्तते । भवति चाभिधानकोप इव व्याख्याने झटिति प्रत्ययः । अस्मादृशा अपि मन्दप्रतिभानाः कवयः कविशब्दवाच्या हरिवृद्धशालिप्रमुखाश्च लोकोत्तरप्रतिभाशालिनस्तदवयवतां विख्याते चाविख्याते च शब्दाः साधारणा भवन्ति । तद्यथा—हरिशब्द एवेति व्याख्यानम् । ततो दोषत्वाभावः प्रतिवस्तुलक्षणालंकारपर्यवसायितया च प्रकृतार्थानुगुणत्वेन गुणत्वलाभः । तदेतव्द्याचष्टे—स्वयं व्याख्यातत्वाद्दोषाभावो गुणत्वं पुनराभिप्रायिकात्प्रकृतानुगुणभावादिति बोद्धव्यम् ॥

  1. ‘अन्द’ (चन्द)’ ख ग