अप्रसिद्धार्थसंवन्धमिति । तस्य गुणार्थस्य व्याख्यानं तव्द्याख्यानम् । अत्राप्यतिप्रसिध्द्याकृष्टस्यानतिप्रसिद्धार्थप्रतीत्यकरणं दुष्टताबीजमभिधानीयम्, तत्तु प्रतीतिपर्यवसानादेव निवर्तते । भवति चाभिधानकोप इव व्याख्याने झटिति प्रत्ययः । अस्मादृशा अपि मन्दप्रतिभानाः कवयः कविशब्दवाच्या हरिवृद्धशालिप्रमुखाश्च लोकोत्तरप्रतिभाशालिनस्तदवयवतां विख्याते चाविख्याते च शब्दाः साधारणा भवन्ति । तद्यथा—हरिशब्द एवेति व्याख्यानम् । ततो दोषत्वाभावः प्रतिवस्तुलक्षणालंकारपर्यवसायितया च प्रकृतार्थानुगुणत्वेन गुणत्वलाभः । तदेतव्द्याचष्टे—स्वयं व्याख्यातत्वाद्दोषाभावो गुणत्वं पुनराभिप्रायिकात्प्रकृतानुगुणभावादिति बोद्धव्यम् ॥