012 धारयतेर्मूलविभुजादित्वात्कः । ताभ्यामिति । पङ्क्तिरनेकज इति नाम यस्येत्यर्थात् । तुक् तोकं तोक्ममित्यपत्यनामानि । उपलक्षणतयैकदेशं व्याचष्टे । अत्र पशुशब्देन गोशब्दो लक्ष्यत इति प्रृतापेक्षया । तेनेषवः प्रत्यायन्त इति शेषः ॥

न यत्पदं निश्चयकृत्संदिग्धमिति तद्विदुः ॥ १२ ॥

यथा—

‘नीललोहितमूर्तिर्यो दहत्यन्ते जगत्रयम् ।
स एष हि महादेवस्त्रिषु लोकेषु पूज्यते ॥ १२ ॥’

अत्र वह्निरर्कः शिवो वेति न निश्चीयते ॥

न यत्पदमिति । पदस्वरूपमेव संदिह्यमानमत्र । तथाहि—स एष हि महादेव इत्यत्र स किमेष हि महादेव इति च्छेदो विधीयतां महादेव इति वा साधकबाधकप्रमाणाभावे संदिह्यते । न च विशेषणनियमहेतुः । वह्न्यर्कावपि हि भगवतो नीललोहितमूर्तिभूतौ हिमापहौ च न निश्चयकृदिति दूषणताबीजप्रदर्शनम् । यदैको विवक्षितस्तदा दोषः । साधुचर इत्यत्रापि ‘भूतपूर्वे चरट्’ इति चरट्प्रत्यये किं पूर्वं साधुरथवा चरेष्टप्रत्यये साधुषु चरतीति पदमेव संदिह्यते तेन पदावयवः संदिग्ध इति केनचिदुक्तम्, तदप्यपास्तम् ॥

विपरीतं विरुद्धार्थप्रकल्पनमिहोच्यते ।

यथा—

‘अनुत्तमानुभावस्य परैरपिहितौजसः ।
अकार्यसुहृदोऽस्माकमपूर्वास्तव कीर्तयः ॥ १३ ॥’

अत्र अनुत्तमा इत्यनेन यथोत्कृष्टस्तथापकृष्टोऽपि । अपिहितमित्यनेन यथा नाच्छादितं तथाच्छादितमिति । अकार्यसुहृदित्यनेन यथाकार्यमन्तरेण सुहृदेवमकार्ये यः सुहृत्सोऽप्युच्यते । अपूर्वाः कीर्तय इत्यनेन यथाद्भुताः कीर्तय एवमकीर्तयोऽप्युच्यन्ते ॥

विपरीतमिति । विपरीतं प्रकृतोपमर्दकमर्थकल्पनं यत्र । तथा हि—अनुत्तमेत्यादौ प्रकरणादिभिः स्तुतिपरत्वे व्यवस्थिते उत्तमत्वाभावादिना विरुद्धेनार्थेन तत्र