अप्रयोजकमिति । तदेव कविभिरुपादीयत इति यदभिप्रेतसंधिमाधत्ते । यत्र वाक्यार्थप्रविष्टमपि न तथाभावमासादयति तदप्रयोजकमित्युक्तम् । तस्य यदि विशेषस्वरूपाभिधाने पर्यवसानेन प्रयोगो न तर्हि दोषः । तथा हि—आकाशमित्यादौ नातिश्यामतारूपं विशेषमाकाशे कांचिदपि विशेषमात्रामुन्मुद्रयति, आकाशस्य सर्वदा तद्रूपानपायात् । एवमसमग्रस्य सहस्रत्वाभावात्साग्रमित्यपि न विशेषाधायकम् । आकाशसहस्रयोस्तु यदेव रूपभावेदनीयमित्यत्रैतावन्मात्राभिप्रायेण नास्ति दूषणम्, तथापि नान्तरीयकयोरभिधाने किं प्रयोजनं येनानयोर्गुणभावसंपत्तिरित्यत आह—दूर इति । अतिदूरे श्यामत्वमधिकं प्रतिभाति । क्षणमात्रमपि न विरतिरासीदिति साग्रपदाभिप्रायोऽत एव नात्र पौनरुक्त्यम् । तर्हि वाक्यार्थे विशेषाधायकत्वमेवानयोरिति कथं दूषणत्वसंभावना । इत्थम् । यस्मिन्ननुपादीयमानेऽपि नाभिमतन्यूनता तत्पदमप्रयोजकम् । अस्ति चात्र द्वयोरपि तज्जातीयतायां दोषत्वप्रसङ्गः । स प्रकृतोपयोगविवक्षायामेव निवर्तते । सर्वथा प्रकृतानुपयोगे दूषणत्वानपायिता । अस्ति चात्रोचित एवोपयोगो यो विवक्षितुमर्हतीत्याह—विवक्षायामिति ॥