098 त्याद्यनुप्रासवत्प्रोढपदसजातीयमेव तल्लपदम् । एवं गल्लेत्यादौ बोद्धव्यम् । तदिदमाह—अत्र तल्लगल्लेत्यादि ॥

ग्राम्यं घृणावदश्लीलामङ्गलार्थं यदीरितम् ।
तत्संवीतेषु गुप्तेषु लक्षितेषु न दुष्यति ॥ १०५ ॥

तत्र संवीते यथा—

‘तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने योजयितुं यतस्व ।
योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम् ॥ १४१ ॥’

अत्र तद्वीर्यनिषेकभूमिरित्यश्लीलस्यापि संवीतत्वाद्गुणत्वम् ॥

यदाह—

‘संवीतस्य हि लोकेषु न दोषान्वेषणं क्षमम् ।
शिवलिङ्गस्य संस्थाने कस्यासभ्यत्वभावना ॥’

ग्राम्यमिति । अत्र केचिद्यथासंख्यं व्याचक्षते—घृणावदादीनां त्रयाणां क्रमेण संख्यानगोपनलक्षणानि दोषत्वाभावबीजानीति, तदसत् । घृणावदर्थादिमात्र एवाग्रे प्रतिसंभेदत्रिकमुपादाय संव्यानादित्रिकस्योपदर्शनात् । एतादृशयथासंख्यसूचनायैव लक्षणातिक्रमेण घृणावतः प्रथममुपादानम् । तस्मात्संख्यानमिव संख्यानं लोकानुमतिः । किंचित्पदं दुष्टजातीयमपि लोके नोपादानात्ताद्रूप्यं जहात्येव । प्रायेण लोकानुसारि काव्यदर्शनं भवत्यतः प्रतिस्वं भेदत्रितयसंबन्धादुपपन्नं यथासंख्यं स्यादित्यभिधाय पूर्वक्रमेणोदाहरति—अत्रेति । एतेन संवीतेष्वित्यादिकं बहुवचनं व्याख्यातम् । यथा शिवलिङ्गस्य संस्थान इत्यत्र यद्यपि मुख्यविधैव शिवलिङ्गपदम्श्लील एवार्थे, तथाप्यविगानेनादिप्रयोगयोगित्वान्न व्रीडादानक्षमं तथेहापि तद्धीर्येति । शिवलिङ्गेत्यत्र भगवत्संबन्धः प्रयोजक इति तु तुल्यमत्रापीत्याह—तदिति । अत्र हि जगदन्तर्यामिणो भगवतस्तद्विरोधितया प्रसिद्धिरुपजीव्या तदुपजीवने व्रीडादायिनी प्रतीतिरनुत्थायिन्येव । अत्रैवाचार्यमतं लिखति—संवीतस्य हीति । कस्यासभ्यत्वेति । भावना सकललोकसाधारणं ज्ञानम् ॥

गुप्ते यथा—

‘सुदुम्त्यजा यद्यपि जन्मभूमिर्गजैरसंबाधमयांबभूवे ।
स तेऽनुनेयः सुभगोऽभिमानी भगिन्ययं नः प्रथमाभिसंधिः ॥ १४२ ॥’