101 भासयन्ति पदानि दोषतया न प्रतिभासते । तत्र वीथ्यङ्गविशेषोपक्षेपस्यामुखशरीरत्वादौचित्यनिवेश एव स्फुटं कारणमित्याशयो बोद्धव्यः । औचित्यविरोधो न सार्वत्रिक इति नातिप्रसङ्ग ॥

33यथा च—

‘कोऽभिप्रेतः सुसंस्थानस्तस्या इति न निश्चयः ।
आशापिशाचिकैषा तु कुमारी मां वरिष्यति ॥ १४६ ॥’

अत्राभिप्रेतसुसंस्थानाशापिशाचिका कुमारीति पदानामशस्तस्मृतिहेतूनामपि लोकैरन्यत्र लक्षितत्वाद्गुणत्वम् ॥

कोऽभिप्रेत इत्यादौ पूर्ववदेव वासना ॥

एवं घृणावदर्थादीनामपि गुणत्वम् ।

तत्र घृणावतो यथा—

‘पद्मान्यर्कांशुनिष्ठ्यूताः पीत्वा पावकविप्रुषः ।
भूयो वमन्तीव मुखैरुद्गीर्णारुणरेणुभिः ॥ १४७ ॥’

अत्र—

‘निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् ।
अतिसुन्दरमन्यत्तु ग्राम्यकक्षां विगाहते ॥’

घृणावदर्थान्तरस्य यथा—

‘कामिनीगण्डनिस्य34न्दबिन्दुरिन्दुर्मतो35 मम ।
अन्यथा कथमेतस्य जगदुद्द्योतिनी द्युतिः ॥ १४८ ॥’

अत्र रागातिशयहेतुभूतयोः कामिनीकपोलचन्द्रमसोः स्वरूपभावनामाहात्म्येनार्थान्तरभावना गुप्तेति गण्डनिस्यन्दबिन्दुरित्यस्य घृणावदर्थान्तरस्यापि न 36दोषत्वम् ॥

अथापरं संख्यानप्रकारं घृणावदर्थे कथयति—यथेति । गुणवृत्तिव्यापाराश्रयेष्ववान्तरादिपदेषु प्रथमत एवान्यक्रियादिधर्माणामन्यत्रारोपे समाधिप्रादुर्भावा-

  1. ‘यथा वा’ ग
  2. ‘निःस्यन्दि’ ख
  3. ‘र्मातर्मम’ ख-ग
  4. ‘दोषः’ क-ख