विपरीतमिति । विपरीतं प्रकृतोपमर्दकमर्थकल्पनं यत्र । तथा हि—अनुत्तमेत्यादौ प्रकरणादिभिः स्तुतिपरत्वे व्यवस्थिते उत्तमत्वाभावादिना विरुद्धेनार्थेन तत्र 013 पर्यवसाययितुं न शक्यते । संशयं युगपद्विवक्षायामपि न विरोधः । इह तु स्तुतिनिन्दयोर्यौगपद्यमसंभावितमत एवैकस्य संभवे त्वपरस्य बाध एव । यथा—‘चिरकालपरिप्राप्तलोचनानन्ददायिनः । कान्ता कान्तस्य सहसा विदधाति गलग्रहम् ॥’ इति गलग्रहशब्दस्य कण्ठग्रहप्रतिद्वन्द्विन्यर्थे विवाक्षिते पूर्वप्रक्रान्तानन्ददायित्वं बाध्यते । अत्रानुत्तम इति बहुव्रीहितत्पुरुषाभ्यामपिहितमिति ‘वष्टि भागुरिः’ इत्यादिना विकल्पेनाकारलोपविधानात् । अपूर्वा इति पक्षान्तरेऽकारपूर्वाः । नियामकसद्भावे तु गुण एव । यथा—‘अपूर्व यद्वस्तु प्रथयति विना कारणकलाम्’ इति शब्दरूपान्तरमेव विरुद्धोपचायकमित्यन्वयव्यतिरेकाभ्यां शब्ददोषताव्यवस्थितिः ॥