न दोष इति । अर्थालंकारकारणादर्थालंकाररूपम् । यत्र हिशब्दस्यार्थोऽन्यथान्यथारूपं भजते तत्रावश्यं तदनुयायिना पदसंदर्भेण भिन्नरूपेण भाव्यम् । एवमपि छायावैरूप्यं वैरस्यमेवावहतीत्याशङ्क्य ‘शब्दाडम्बर’ इत्युक्तम् । आडम्बर 124 उद्भटता । ‘तस्याप्येकरीत्यनिर्वाहो दूषणमित्यत्र ‘पौरस्त्यैः’ इत्युक्तम् । शरावत्याः प्राग्देशभवाः पौरस्त्यास्तदीयहेवाकप्राचुर्यभाज एव हि खण्डरीतयः । चन्दनेति । अत्र यद्यपि मलयानिल एक एव वाक्यार्थस्तथापि चन्दनप्रणयेन प्रवृद्धसौरभे मन्द इत्याभ्यां शृङ्गाराङ्गताप्रतीतावुन्मिश्रः संदर्भः । मलयमारुत इति कोमलः, वररामामुखानिलैरित्यपि तथा, तत्राप्यारभटीप्रकाशने स्पर्धत इति स्फुटम् । एवं रूद्धमद्धैर्य इति । तदेवं समताविपर्यासेऽपि विशेषणानामर्थानां भिन्नभिन्नरसानुप्रवेशे पृथगर्थालंकारः प्रकाशन्ते । अस्ति चात्र शब्दाडम्बरवशादेव छायारूपाप्रतिभासः । लाटीया च रीतिः ॥