124 उद्भटता । ‘तस्याप्येकरीत्यनिर्वाहो दूषणमित्यत्र ‘पौरस्त्यैः’ इत्युक्तम् । शरावत्याः प्राग्देशभवाः पौरस्त्यास्तदीयहेवाकप्राचुर्यभाज एव हि खण्डरीतयः । चन्दनेति । अत्र यद्यपि मलयानिल एक एव वाक्यार्थस्तथापि चन्दनप्रणयेन प्रवृद्धसौरभे मन्द इत्याभ्यां शृङ्गाराङ्गताप्रतीतावुन्मिश्रः संदर्भः । मलयमारुत इति कोमलः, वररामामुखानिलैरित्यपि तथा, तत्राप्यारभटीप्रकाशने स्पर्धत इति स्फुटम् । एवं रूद्धमद्धैर्य इति । तदेवं समताविपर्यासेऽपि विशेषणानामर्थानां भिन्नभिन्नरसानुप्रवेशे पृथगर्थालंकारः प्रकाशन्ते । अस्ति चात्र शब्दाडम्बरवशादेव छायारूपाप्रतिभासः । लाटीया च रीतिः ॥

कठोरमपि बध्नन्ति 84दीप्तमित्यपरे पुनः ।
तेषां मतेन तस्यापि दूषणं नैव विद्यते ॥ १२८ ॥

यथा—

‘न्यक्षेण पक्षः क्षपितः क्षत्रियाणां क्षणादयम् ।
अत्र कठोरत्वेऽपि दीप्तत्वाद्गुणत्वम् ॥’

कठोरमिति । सुकुमारताविपर्यासः कठोरः संदर्भः प्रस्फुटतरवर्णाप्रधानमिति यावत् । सोऽयं दीप्तरसानुप्रवेशादौचित्येन गुणत्वं भजत इति व्यक्तम् । अपरे पौरस्त्याः । न्यक्षेण सामस्त्येन ॥

अविद्वदङ्गनाबालप्रसिद्धार्थं प्रसादवत् ।
विपर्ययोऽस्याप्रसन्नं चित्रादौ तन्न दुष्यति ॥ १२९ ॥

यथा—

‘याश्रिता पावनतया यातनाच्छिदनीचया ।
याचनीया धिया मायायामायासं स्तुता श्रिया ॥ १७१ ॥’

अत्राप्रसाददोषेऽपि चित्रत्वाद्गुणत्वम् ॥

अविद्वदिति । विपर्ययः प्रत्यनीकभूतं वाक्यम् । आदिग्रहणाद्यमकश्लेषप्रहेलिकाप्रकरणानि । या देवी पवित्रत्वेनाश्रिता । अनीचया तुङ्ग्या बुध्द्या मायायामस्य अविद्याविस्तारस्यायासं ग्लानिं विच्छेदं याचनीया प्रार्थनीया । यतो यातनं नरका-

  1. ‘प्रदीप्तमपरे’ ग