लोकांतीत इति । ‘अनामये प्रियालापे वार्तं वार्ता च कीर्त्यते । वर्णनास्वपि’ इत्यादिपदविवरणं दृश्यते । कान्तमित्यभिसंबन्धः । लौकिकार्थानुयायि यज्जगति लोके कान्तमुच्यते तथाभूतमतिक्रम्य यत्कवीनां प्रस्थानं प्रवर्तते तदपि गौडानां मनसो मुदे प्रोक्तम् । शब्दाडम्बरात्मकगौडरीतिप्रियाणां विदग्धकामाज्ञापकं सद्गुणी भवतीति श्लोकार्थः । धिष्ण्यं गृहम् । ननु प्रियालापवर्णनयोरेवंविधा एव लोके काव्ये च वचनसंदर्भा इति नास्त्यतिमात्रतानतिमात्रतयोर्भेद इति पृच्छति—अथेति । सुगभमन्यत् ॥
यथा—
अत्र पारुष्येऽपि विरुद्धलक्षणयार्थान्तरस्य लक्षितत्वाद्गुणत्वम् ॥
परुषमिति । विरुद्धलक्षणा लौकिकी तस्या हि झटित्यभिधानाविनाभावादपरुषार्थप्रतीतेरभिधानतः पारुष्यं न दोषो लक्षणापरिग्रहेण च गुणत्वम् । तदाहुः—‘अभिधेयाविनाभावप्रतीतिर्लक्षणेति या । सैषा काव्ये दग्धवक्रा जीवितं वृत्तिरिष्यते ॥’ इति ।
यथा—
अत्र करुणे श्रृङ्गारस्याप्र101कृतत्वेऽपि शंभुप्रभाववर्णनाङ्गभूतत्वेन द्वयो- रप्यप्राधान्यादवैरस्येन गुणत्वम् ॥
- ‘स्तुतत्वे’ इति सटीकपुस्तकपाठः↩