परुषमिति । विरुद्धलक्षणा लौकिकी तस्या हि झटित्यभिधानाविनाभावादपरुषार्थप्रतीतेरभिधानतः पारुष्यं न दोषो लक्षणापरिग्रहेण च गुणत्वम् । तदाहुः—‘अभिधेयाविनाभावप्रतीतिर्लक्षणेति या । सैषा काव्ये दग्धवक्रा जीवितं वृत्तिरिष्यते ॥’ इति ।