निरलंकारमिति । दैन्यपराभवप्रणयिनीमित्याद्युत्कृष्टपुष्टिविशेषणयोगादस्तिशब्देऽस्पष्टे वक्रतार्थे तु नास्ति वक्रत्वं चालंकार इति । यद्यपि वाक्यार्थो निरलंकार 136 इव भासते, तथापि विशेषतोऽलंकाराध्यवसायेऽपि सामान्येन वक्रता प्रकाशत एव । नहि लौकिकशास्त्रीयवचनार्थवैपरीत्यमिह प्रतीयते । तदिदमुक्तमर्थौर्जित्यादिति ॥

अस्ति हि वयं याचामह इत्युक्ते याच्ञा च भिक्षाकरानालक्षिता(?)इत्युक्तौ नायकप्रकर्षाभिव्यञ्जको विशेष इत्याह—