017

तेषु घृणावदर्थं यथा—

‘पर्दते हदते स्तन्यं वमत्येष स्तनंधयः ।
मुहुरुत्कौति निष्ठीवत्यात्तगर्भा पुनर्वधूः ॥ २२ ॥’

पर्दते हदते वमति निष्ठीवतीति शब्दानां घृणावदर्थत्वम् ॥

पर्दत इति । उत्कौति उत्कारं करोति । निष्ठीवति थूत्करोति । आत्तगर्भा पुनर्वधूरिति बालस्य स्तन्यवमनादिनिदानसूचनम् । अत एव ‘न गर्भिण्याः पिबेत्क्षीरं पारगर्भिककृत्तु तत्’ इति वैद्यकम् ॥

घृणावदर्थान्तरं यथा—

‘बाष्पक्लिन्नाविमौ गण्डौ विपूयापाण्डरौ तव ।
प्रियोऽग्रे विष्ठितः पुत्रि स्मितवर्चोभिरर्चति ॥ २३ ॥’

अत्र क्लिन्नगण्डविपूयाविष्ठितवर्चः पदानां घृणावदर्थान्तरम् ॥

बाष्पेति । विपूयो मुञ्जः । विशेषेण स्थितो विष्ठितः स्मितवर्चो हास्यतेजः । तव कपोलौ दृष्ट्वा पुरःस्थितस्तव प्रिय ईषद्धास्यं कुर्वन् कपोलयोर्हास्यज्योत्स्नया पूजां करोतीत्यर्थः । अन्यत्र बाष्पेणोष्मणा क्लिन्नो मृदूभूतः गण्डो व्रणः । विशिष्टः पूयो विपूयस्तेन पाण्डरः । विष्टितो विष्ठा संजातास्य । वर्चः पुरीषम् । यत्स्मरणाद्बाष्पादीनां घृणावति वृत्तिस्तदेव पृथक्कृत्याह—अत्र क्लिन्नेति ॥

घृणावत्स्मृतिहेतुर्यथा—

‘प्रत्यार्द्रयन्तो रूढानि मदनेषुव्रणानि नः ।
हृदयक्लेदयन्त्येते पुरीषण्डमहद्द्रुमाः ॥ २४ ॥’

अत्र रूढव्रणक्लेदपुरीषण्डपदानां घृणावत्स्मृतिहेतुत्वम् ॥

प्रत्यार्द्रयन्त इति । अन्योन्यलग्नो वृक्षसमूहः षण्डः । रूढानीत्यनेन मदनेषुव्रणानां विशेषितत्वात् । मदनेषुभागमपहाय व्रणभागमात्रेण रूढव्रणस्मृतिर्भवन्तीपदादेवेति विवक्षितवान् । पुरीषण्डशब्दे पुरीषेत्येकदेशः ॥

तदेवं पददोषांल्लक्षयित्वा क्रमप्राप्तवाक्यदोषा लक्षणीया इति तान्विभजते—

शब्दहीनं क्रमभ्रष्टं विसंधि पुनरुक्तिमत् ।
व्याकीर्ण वाक्यसंकीर्णमपदं वाक्यगर्भितम् ॥ १८ ॥