क्रियापदेति । क्रियेत्युपलक्षणम्। प्रधानपदहीनमिति बोद्धव्यम् । प्रधानाविमर्शे हि वाक्यशरीरमेव न निष्पन्नं स्यात् ॥ शैलेति । वाक्ये क्रियाप्रधानमिति दर्शने तत्पदानुपादानादत्र प्रधानाविमर्शः। शैलसुतयावरुद्धमर्धं यस्य । मुद्धाणो मूर्धा तत्राबद्धा भुग्ना शशिलेखा येन । शीर्षे प्रतिष्ठा गङ्गा येन । यश्च संध्यायै प्रणतस्तं प्रमथनाथं प्रमथा गणास्तेषां नाथम् । कर्मविभक्तेः क्रियामन्तरेणाचरितार्थत्वात्क्रियाया नमस्काररूपाया व्यभिचारेणार्थापत्तिविषयतानुपपत्तेरिति । अस्यां च गाथायां स्त्रीमयव्यापाररूपता भगवतः प्रतीयते इति रहस्यमाराध्या मन्यन्ते ॥

गुणभङ्गद्वारकदोषनिरूपणावसरोऽयमित्याशयवानाह—