032

वाक्यमिति । संपूर्णं वाक्यत्वमर्थव्यक्तिं करोतीति वक्ष्यति । सर्वस्य वाक्यस्य विशेषणविशेष्यभावबोधकत्वनियमे यावतां विशेषणविशेष्यभावोऽभिमतस्तावत्प्रतिपादकपदोपादानं संपूर्णता । सा च विशेषणविशेष्यभावानुरूपार्थनिरूपणीयतयार्थप्रधानेति तद्विपर्ययोऽपि तत्प्रधान इति पूर्ववन्नेयम् । अत एव विवक्षितवाक्यान्यथानुपपत्त्या नेयः कल्पनीयोऽर्थो यस्येति नेयार्थमित्यर्थोऽपि घटते । महीति । पूर्वार्ध एव काव्यं निर्वर्तितम् । न च तावता विवक्षितार्थलाभः । तथा हि—समुद्रमध्यात्पृथिव्यामुद्ध्रियमाणायां महासुरविमर्दे तेषां दंष्ट्रया पाटनेन रुधिरशबलतया लोहितत्वमुदधेरिति वाक्यार्थोऽभिप्रेतः । लक्षणाया अभावान्न नेयार्थत्वं पददूषणमत्र संभावनामारोहति । दूषणताबीजं चात्र स्फुटमेव । अशरीरं तु क्रियापदशून्यमित्युक्तम् । तदेतत्सर्वमभिप्रेत्याह—तदिदं निगदेनैवेति ॥

कान्तेर्विपर्याद्वाक्यं ग्राम्यमित्यपदिश्यते ।

यथा—

‘विरहे ते विषीदन्तं निषीदन्तं तवान्तिके ।
कन्ये कामयमानं मां त्वं न कामयसे कथम् ॥ ४६ ॥’

इदमुक्तेर्ग्राम्यतया कान्तिहीनमित्यर्थप्रधानोऽयं कान्तिविपर्ययो दोषः ॥

कान्तेरिति । रसस्य दीप्तिः कान्तिरग्रे विवरिष्यते तेनार्थप्रधानता व्यक्ता । तस्यामस्ति वाक्यवाच्ययोर्व्यापारः । वाक्यं विदग्धोक्तिकं व्याप्रियते । अतथाभूतस्य रसाव्यञ्जकत्वनियमात् । तथाहि—कन्ये इति संबोधनेन रसविरोधिनीविलसिता क्षमता प्रतीयते । कामयमानमित्यनेनानावरणमुच्यमानोऽर्थः कथं न वैरस्यमावहतीत्यादिकमुन्नेयम् । तदिदमाह—इदमुक्तेर्ग्राम्यतयेति ॥

ओजोमाधुर्यमौदार्यं न प्रकर्षाय जायते ॥ ३५ ॥
यस्मिंस्तमाहुरुभयप्रधानं तद्विपर्ययात् ।
वाक्ये यः खण्डयन्रीतिं भवत्योजोविपर्ययः ।
असमस्तमिति प्राहुर्दोषं तमिह तद्विदः ॥ ३६ ॥

यथा—

‘स्मरः खरः खलः कान्तः कायः कोपधनः कृशः ।
च्युतो मानोऽधिको रागो मोहो जातोऽसवो गताः ॥ ४७ ॥