046

अत्र हस्तिहयैरण्डखदिराणां केसरादिसद्भावस्य प्रत्यक्षेणानुपलम्भात् । जङ्गमस्थावरो लोक इति लोककृतोऽयं प्रत्यक्षविरोधः ॥

आधूतेति । अन्ते प्रत्यक्षविरोधशब्दार्थं व्याचष्टे—प्रत्यक्षेणानुपलम्भादिति । कथमयं लौकिकविरोध इत्यत आह—जङ्गमेति । जङ्गमस्थावरं जीवच्छरीरं लोकः । तत्र जङ्गमं गावाश्वादि स्थावरं लतावृक्षादि राष्ट्रादावेव देशपरिभाषा इदं प्रकारान्तरेण देशशब्देनाभिधीयते ॥

युक्त्यौचित्यप्रतिज्ञादिकृतो यस्त्विह कश्चन ।
अनुमानविरोधः स कविमुख्यैर्निगद्यते ॥ ५६ ॥

तत्र युक्तिविरुद्धं यथा—

‘सुरहिमहुपाणलम्पडभमरगणाबद्धमण्डलीबन्धम् ।
कस्स मणं णाणन्दइ कुम्मीपुट्ठट्ठिअं कमलम् ॥ ६९ ॥’
[सुरभिमधुपानलम्पटभ्रमरगणाबद्धमण्डलीबन्धम् ।
कस्य मनो नानन्दयति कूर्मीपृष्ठस्थितं कमलम् ॥]

अत्र कूर्मीपृष्ठे कमलोद्गतेरयुक्तियुक्तत्वाद्युक्तिविरुद्धमिदम् ॥

युक्तीति । सामान्यतस्तावदनुमानविरोधो यत्प्रमाणाभावः । नहि प्रमेयाभावे प्रमाणं प्रसिद्धम् । तदयमर्थो युक्तिः प्रमाणम् । आधूतकेसरेत्यादौ उदाहरणे क्वचिदेव व्यक्तिविशेषे केसरादिसंबन्धप्रतिपादनं कथमन्यथा तेषामेरण्डं निर्दिशति । ततो भवति प्रत्यक्षेणैव विरोधः । इह तु न तथा । नहि विशेषतः कापि कूर्मपृष्ठव्यक्तिरस्तीति सामान्याकारेण विवक्षितम् । ततश्च कमलजातेः पङ्कजप्रभवाया एव निश्चयात्कूर्मपृष्ठादुद्गमे न कश्चित्प्रमाणं कदापि कस्याप्यवतरतीत्याशयवान् व्याचष्टे—अत्रेति । अयुक्तियुक्तत्वादिति । युक्तेः प्रमाणत्वेनासंबद्धत्वादित्यर्थः ॥

औचित्यविरुद्धं यथा—

‘पट्टंसुउत्तरिज्जेण पामरो पामरीऍ परिपुसइ ।
अइगरुअकूरकुम्भीभरेण सेउल्लिअं वअणम् ॥ ७० ॥’
[पट्टांशुकोत्तरीयेण पामरः पामर्याः प्रोञ्छति ।
अतिगुरुककूरकुम्भीभरेण स्वेदार्द्रितं वदनम् ॥]