183

अत्र लाङ्गूलवल्लीवलयितबकुलैर्नदद्भिर्गोलाङ्गूलैः प्रतिरसितजरत्कन्दरामन्दिरेषु खण्डेषु उद्दण्डपिण्डीतगरतरलनाः पुटकिनीबन्धवो गन्धवाहा वेलामालम्ब्य येन प्रापिरे इत्यतोऽधिकानामपुष्टार्थानामपि पदानामनुप्रासाय च्छन्दःपूरणाय चार्थानुगुण्येन रचितत्वादियं पदरचना ॥

लोलल्लाङ्गूलवल्लीति । लाङ्गूलवल्लीवलयितेत्यादि यथोक्तवाक्यविरचनमात्रेणैव प्रयोजनपरिग्रहे सिद्धे यदधिकानां लोलद्वल्लीप्रभृतिपदानामावापस्तेन विना नोचितानुप्राससिद्धिर्नच तया विना वृत्तौचिती समाप्यते । न वा तामन्तरेण लाङ्गूलादीनामभिमतास्ते ते विशेषाः प्रतीयन्त इति पल्लवप्रतिष्ठैव हि सरस्वती सहृदयानावर्जयतीति—‘वाक्यप्रतीतिमात्रार्थमुपात्तेषु पदेषु यः । उपस्कारः पदैरन्यैः पल्लवं तं प्रचक्षते ॥ अपल्लवं तु यद्वाक्यं कविभ्यस्तन्न रोचते । प्रयुज्यते तथाभूतमुदीच्यैः कविगर्हितम् ॥’ तदिदमाह—अत्रेत्यादि ॥

वाक्यकृता यथा—

‘पतिश्वशुरता ज्येष्ठे पतिदेवरतानुजे ।
मध्यमेषु च पाञ्चाल्यास्त्रितयं त्रितयं त्रिषु ॥ ७० ॥’

इह महतोऽर्थस्याल्पीयसा ग्रन्थेनाभिधानमिति व्युत्क्रमेणापि ग्रन्थलाघवाय वाक्यार्थो रचित इतीयं वाक्यरचना ॥

वाक्येति । वाक्यरचना तु महावाक्य एव भवतीति । तथाहि । पतिश्वशुरतेत्यादिकमल्पाक्षरमेव वाक्यं महतोऽर्थराशेः समर्पकमिति भावयतां सहृदयानां कवित्वशक्तिरप्रत्यूहैव प्रकाशते । अत एव शक्तितिरस्कारादाद्यन्तावभिधाय मध्यमाभिधाने क्रमभ्रंशोऽपि तिरस्क्रियत इत्याह—अत्रेति ॥

शय्येत्याहुः पदार्थानां घटनायां परस्परम् ।
सा प्रक्रान्तेन कस्मिंश्चिदप्रक्रान्तेन कुत्रचित् ॥ ५४ ॥

शय्येति । किंचिदेकं वस्तु बुद्धौ समाधाय तदधिकारप्रबन्धरचनायामधिकस्यान्तरान्तरा प्रकृते योजना शय्या । पदार्थानां प्रस्तुताप्रस्तुतवस्तूनाम् । तच्च योजनीयं शब्दार्थभेदेन द्विविधम् । तत्र वस्तुवाक्ययोरेव योजना महाकविप्रबन्धेषु दृश्यते । अर्थस्तु प्राकरणिकार्थोपयोगी तदनुयोगी चेति द्विविधः । द्वितीयोऽप्यतिक्रान्तोऽतथाभूतश्चेति पूर्ववद्विभागवाक्यं व्याख्येयम् ॥