187 नाङ्गेऽनुपपद्यमानः सूर्यांशुकार्कश्यप्रतप्तपांसुतापपरुषोष्मानिलत्वदावाग्निकालुष्यादेः स्वधर्मसंपदः समानानीकभूताभूतपूर्वानङ्गज्वरलिङ्गसंपदमुपयन्नष्टमीं कामावस्थामुपलक्षयति । मार्गशीर्ष इत्यनेन तु पूर्वावयवेन हेमन्तो लक्ष्यते । तेन च यथा हेमन्ते तिलवनं लूयते तथा तस्याः सुखासिका सांप्रतं लूयत इति लक्षितेनातिशयिनी मनःपीडोपलक्षिता भवति । का पुनः सुखासिका तिलवनयोः समानधर्मता येयं स्नेहनिर्भरता नाम । अभिसारिकाणां च प्रायेण तिलवनाब्जिनीखण्डयोरेव बहुमानप्रसिद्धिः । यदित्थमाहुः—

‘अत्तन्तहरमणिज्जं अम्हं गामस्स मण्डणीहूअम् ।
लुअतिलवाडिसरिच्छं सिसिरेण कअं भिसिणिसण्डम् ॥ ७७ ॥’
[अत्यन्तरमणीयमस्माकं ग्रामस्य भण्डनीभूतम् ।
लून तिलवाटीसदृशं शिशिरेण कृतमब्जिनीखण्डम् ॥]

अत एवायमुत्तरवाक्ये कमलसरःशब्देनाब्जिनीखण्डमपि निर्दिशति । तद्यथा—

‘मुद्धिहि मुहपङ्कअसरि आवासिउ सिसिरु' ।
[मुग्धाया मुखपङ्कजसरसि आवासितः शिशिरः ।]

तत्र शिशिर इत्यनेन ऋतुविशेषेण मुग्धामुखेऽपि पद्मसरसीव शब्दशक्त्या निवेशितेन कमलवनोपप्लवादेः स्वधर्मसंपदो लोकप्रतीतायाः प्रत्यासन्ना मुग्धामुखाम्भोरुहलोचनोत्पलस्मितकुसुमदशनकेसरादेश्छायापरिम्लानिर्लक्ष्यमाणा विप्रलम्भानुभावप्रकर्षमुपलक्षयति । शिशिरलक्ष्मीवर्णनप्रस्तावाच्च ‘मुखमर्धं शरीरस्य सर्वं वा मुखमुच्यते’ इति प्रस्थानप्राधान्यलक्षणया सर्वर्तुभ्यः शिशिर एव प्रधानमित्यपि लक्षितं भवति ॥