190 परदुर्गग्रहणादौ महाननुबन्धो दृष्टः । स इह प्रस्तुतायां विरहवतीसंतापलक्षणायां प्रवृत्तौ लक्ष्यत इत्येकलक्षणाव्यवधानेनेयं लक्षणा । एवं लक्षणाद्वयव्यवधानेनापि भवतीत्याह—ते चेति । श्रावणादयः स्वधर्मसंपदो निरन्तरवर्षणादेः स्वार्थाविनाभावेन लक्षितायाः प्रत्यासन्ना सदृशी तेषां लोचनादीनां धर्मसंपदश्रुप्रभावादिलक्षणा लक्ष्यत इति द्वितीया लक्षणा । तत्पुरःसरां तृतीयामाह—असावसाविति । एवं लक्षणात्रयपूर्वापि लक्षणा बोद्धव्येत्याह—कमितरीति । स्नेहप्रतीत्या तु विभावादिसंवलितया रसो व्यज्यते, न तु लक्ष्यत इत्यन्यत्र विस्तरः । कस्याः पुनः स्वधर्मसंपदः प्रत्यासन्ना का तद्धर्मसंपदित्यतो विवेचयति—तत्रेति । यदि श्रावणादिपदेषु समुदायलक्षणा न स्यात्तदा मासानुपक्रम्य ऋतूनामभिधाने प्रक्रमभेदो भवेत् ! न भवेच्च तत्तदृतुप्रतीत ऋतुसंपत्प्रतीतिः क्वचिदिति युक्तैव समुदायलक्षणा । एताभ्यामिति । प्रत्येकं न तु पदद्वये लक्षणा संभवति । विभक्तिश्रुत्येति । सप्तमीप्रथमाविभक्तिभ्यामाधाराधेयभावः स्वशक्त्या प्रतिपाद्यते तदनुपपत्त्यार्थान्तरलक्षणा प्रादुर्भवति । एवं चैत्रवैशाखसमुदायात्मनो वसन्तस्योत्तरावयवो वैशाखस्तद्वाचकेऽपि माधवपदे समुदायलक्षणाद्वारेण लक्षणा भवति । प्रशंसावचनस्यापीति । गर्भीकृतसारूप्या हि व्याघ्रादय उपमेयवाचिभिः समस्यन्ते । तच्च सारूप्यं प्रकर्षलक्षणमेवेति प्रशंसापरत्वे स्थितेनाभिधेयमप्रतीत्यसारूप्यं वा रूपान्तरं वा प्रत्येतुं न शक्यत इत्यभिधेयप्रतीत्यनुनिष्पादिनी घण्टानुस्वानसोदरा स्वधर्मसंपद्यथोक्ता प्रतीयते । स्वने किल शरदाकाशकुसुमहंसादिका स्वसंपद्विस्तार्यते । न मुखचन्द्रादिवत्सुखासिकातिलवनयोः सादृश्यप्रतीतिर्न च तदभिधीयमानं किंचिदत्रास्तीति पृच्छति—का पुनरिति । मा भूत्तथा प्रसिद्धिः कवेरभिप्रायारूढा तु प्रतीयत इत्युत्तरमाह—येयमिति । न स्नेहो नाम द्वयोरेकः कश्चिदस्ति न चानभिधीयमानमपि सादृश्यं शब्दसामान्यमाश्रयत इत्यतः प्रकारान्तरमाह—अभिसारिकाणां चेति । कथमेतदवगतमित्यत आह—यदित्थमिति । ननु कमलिनीशब्दस्यात्र बहुमानगोचरता प्रतिपादिता, न तु तिलवनस्येत्यत आह—अत एवेति । उपमानोपमेययोर्द्वयोरपि कामिनीबहुमानगोचरतां वितरन्ती शिशिरेण सांप्रतं तिलवाटिकालवनमपि वर्तत इत्यभिप्रैतीति भावः । ‘मुखमर्धं शरीरस्य’ इत्यादिन्यायेन मुखशब्दः प्राधान्यं लक्षयति, ततो मुखपङ्कजसरसि शिशिर इति तद्भावापत्त्या हेमन्तस्यापि ऋतुषु प्रथमतया प्राधान्यमेव द्योतितमिति । तदुक्तम्—‘पडिकम्मदूइपेसणभाणग्गहणेसुभासुरपहुय्यन्तो । हेमन्तिओ सुहाअइ मलिणमिअङ्को वि कामिणीणयओसो ॥’