आवृत्तिः सकृदावर्तनेनैव निर्वहति तत्किमसकृदावृत्तौ यमकं न भवतीत्यत आह—एवमिति । आवृत्तिसामान्यमधिकमनधिकं वा द्वयमप्यावृत्तिपदेनाभिमतमित्यर्थः । वियदाकाशम् । वियती अपगच्छन्ती वृष्टिपरंपरा यस्मात्तत्तथा । परमुत्कृष्टरमणीयम् । घनाघनाली मेघपङिक्तः । रसिते स्तनिते आसितावलम्बिता । सिता शुभ्रा । सरांसि च सरस्यश्च सरःसरस्यः । स्वरसारास्तत्कालोन्मिषितकूजितकान्तिप्रधानाः सारसाः पक्षिणो यत्र तास्तथाभूताः । सभा गृहरूपा जलसमुदायो वा । सभाः सदीप्तिः । ताराणां तारता निर्मलताप्रकर्षः किंचिद्धनरोधसद्भावादीषतारता यस्यां सा तथा ॥