विविधेति । विविधानि धववनानि यस्यां सा तथा । धवो विट्खदिरः । नागान् सर्पान् हस्तिनो वा गृध्यन्त्यभिलषन्तीति नागगर्धाः । अर्द्धा उपचिता नानावयो विचित्राः पक्षिणस्तैर्विततं व्याप्तं गगनं यस्यां सा तथा । कल्लोलपरम्पराभिरनामं नमनशून्यम् । मज्जन्तः स्नान्तो जना यस्यां सा । अना स्त्रीरूपा । रुरूणां शशानां च ललनमुत्फालो यस्यां सा तथाभूता । नौ आवयोरबन्धुं शत्रुं धुनाना क्षिपन्ती । हरिप्रबोधे बलभद्रस्य कृष्णं प्रत्युक्तिः । यस्मान्मम हिततना हितं तनोति । अनाननो मुखशून्यः यः स्व आत्मा तेन स्वनाना शब्दायमाना । शीले चानश् । ‘अनित्यमागमशासनम्’ इति मुगभावः । यदि वा अनाननो मुखं विना कृतः स्वकीयः स्वनो यस्याः सा । अनितीत्यना प्राणयुक्ता । अन्तर्णीतेवार्थं चैतत् । वर्णद्वयपर्यन्तमावृत्तिः सूक्ष्मता । सैवैकवर्णगोचरा सूक्ष्मतरा ॥