अत्र यद्यपि यामायामेत्यादौ व्यपेतमाद्यन्तयमकं नीतानीतेत्यादौ च मध्ययमकमव्यपेतं विद्यते, तथापि मण्डूकप्लुत्या गतप्रत्यागतेर्यतेश्च नैतदुल्लिखति अपि तु श्लोकोऽपि द्वाभ्यां द्वाभ्यामक्षराभ्यां सूक्ष्मवृत्त्या व्याप्त इव लक्ष्यते । तेनास्थानयमकमिदमादिमध्यान्तानामभावात्सूक्ष्मावृत्तेः सूक्ष्मव्यपेतमुच्यते ॥