141

शब्दालंकारसामान्यलक्षणमाह—

ये व्युत्पत्त्यादिना शब्दमलंकर्तुमिह क्षमाः ।
शब्दालंकारसंज्ञास्ते ज्ञेया जात्यादयो बुधैः ॥ २ ॥

ये व्युत्पत्तीति । विशिष्टा उत्पत्तिर्व्युत्पत्तिर्लोपागमविकारादिप्रपञ्चः । अत एव हि संस्कृतादिजातयो व्यवतिष्ठन्ते । आदिग्रहणाद्गुरुलघुसंनिवेशादयो गत्याद्यवच्छेदास्त्रयोविंशतिरुपात्ताः । बाह्यकङ्कणादिसाम्यादियं संज्ञा प्रवृत्तेत्याह—शब्दालंकारसंज्ञा इति ॥

जातिर्गती रीतिवृत्तिच्छायामुद्रोक्तियुक्तयः ।
भणितिर्गुम्फना शय्या पठितिर्यमकानि च ॥ ३ ॥
श्लेषानुप्रासचित्राणि वाकोवाक्यं प्रहेलिका ।
गूढप्रश्नोत्तराध्येयश्रव्यप्रेक्ष्याभिनीतयः ॥ ४ ॥

ते च प्रति विशेषं वक्ष्यन्ते—

चतुर्विंशतिरित्युक्ताः शब्दालंकारजातयः ।
अथासां लक्षणं सम्यक्सोदाहरणमुच्यते ॥ ५ ॥

शब्दालंकारजातयः शब्दालंकारसामान्यानि ॥

स्वरूपस्थितौ रूपान्तरगवेषणमनुचितम् । अतो जातेः प्राधान्यात्प्रथमं लक्षणमित्याह—

तत्र संस्कृतमित्यादिर्भारती जातिरिष्यते ।
सा त्वौचित्यादिभिर्वाचामलंकाराय जायते ॥ ६ ॥

तत्रेति । संस्कृतमिति भावप्रधानो निर्देशः । भारतीग्रहणं स्पष्टार्थम् । नन्ववश्यं शब्देन संस्कृताद्यन्यतमेन भवितव्यम् । तत्कोऽत्र कवेः शक्तिव्युत्पत्त्योरंशो येनालंकारता स्यादित्यत आह—सेति । औचित्याकृष्ट एवालंकारः । अस्ति च संस्कृतादेरपि तथाभाव इति भावः ॥

यद्यप्यर्थौचिती पूर्वं दर्शयितुमुचिता तथापि प्राधान्यमावेदयितुं पृथक्तौचितीमाह—

संस्कृतेनैव केऽप्याहुः प्राकृतेनैव केचन ।
साधारण्यादिभिः केचित्केचन म्लेच्छभाषया ॥ ७ ॥