225

एकवचनबहुवचनाभ्यां विशेषणेषु संबन्धयोग्यताक्षेपात्तिङ्वचनेषु सुब्वचनेषु च यथायथमर्थद्वयोन्मीलनाच्छब्दरूपद्वयोद्भेदः । एकवचनेन वलयः कङ्कणं बहुवचनेन च मध्यरेखा इति सुबन्तपदे । एतदौचित्ये तिङन्तपदे चाभवन्निति वचनद्वयलाभः । न चानयोः किंचिदुद्भेदकं निबद्धमिति निरुद्भेदोऽयम् । तदेतदाह—अत्रेत्यादि ॥

पदश्लेषो यथा—

‘अरिभेदः पलाशश्च बाहुः कल्पद्रुमश्च ते ।
बालेवोद्यानमालेयं सालकाननशोभिनी ॥ १६० ॥’

अत्र प्रकृतिप्रत्ययविभक्तिवचनानां पृथगभिधानादभिधानमालोक्तानि प्रातिपदिकान्येव पदशब्देनोच्यन्ते । तेन पूर्वार्धे शत्रुभेदोमांसादस्ते बाहुरित्यर्थेनारिभेदपलाशाख्यवृक्षनाम्नी श्लिष्येते । उत्तरार्धे च सालानां काननेन शोभत इत्येवंशीलेयमुद्यानमालेव व्द्यर्थेन सालकेनाननेन शोभत इत्येवंशीला बालेत्युपमानार्थः श्लिष्यते । स एष पदश्लेषा नाम शब्दश्लेषः ॥

अरीणां भेदः शरीरधातुभेदः, पलं मांसमश्नाति यः स तथा, चकार उत्तरवाक्यापेक्षया । अरिभेदो विट्खदिरः पलाशः किंशुकः सालास्तरुविशेषास्तेषां काननम्, अलकाश्चूर्णकुन्तलास्तत्सहितमाननं च । पूर्वोत्तरार्धयोर्नैकवाक्यत्वमुदाहरणत्वात् । ननु विभक्त्यन्तान्नान्यत्पदं तत्र पूर्वभागेन प्रकृतिश्लेष उत्तरभागेन च प्रत्ययश्लेष उद्दिष्ट एव, तत्कोऽन्य, पदश्लेष इत्यत आह—अत्रेति । प्रकृतिप्रत्ययभावविवक्षाविरहे नाममालोक्तानि प्रातिपदिकान्येवावशिष्यन्त इत्यर्थः ॥

वर्णश्लेषोऽपि पदश्लेष एव । स यथा—

‘त्वमेव देव पातालमाशानां त्वं निबन्धनम् ।
त्वं चामरमरुद्भूमिरेको लोकत्रयात्मकः ॥ १६१ ॥’

अत्र त्वमेव पातालमित्यकारः पाश्चात्ये, त्वं च अमरमरुद्भूमिरिति चकारः पौरस्त्येऽक्षरे श्लिष्टः पातालं चामरे इति च पदं रचयति । सोऽयं पदश्लेष एव वर्णश्लेष इत्युच्यते ॥