प्रायेणेति । श्रुत्यनुप्रासो हि श्लेषघटकः । श्लेषश्च गुणान्तरसमकक्षतयावतिष्ठमानो वैदर्भी प्रयोजयति । अनुप्रासान्तरं तु प्रौढिं वा माधुर्यं वा प्रकर्षयतीति न तथानुकूल्यम् । कविशक्तिवशात्तु क्वचित्तदपि प्रयोजयतीति प्रायपदेन सूचितम् । स्थितिप्रयोजको लोके नाथ इत्युच्यते, तेषु नायक इत्येव वक्तव्ये पुनरनुप्रासपदमनुप्रासान्तरसाधारण्येनैव शब्दालंकारत्वं दर्शयितुमिति समाधेयम् । विचित्रिता आलेख्यमिव लेखया चमत्कारकारित्वमानीता ॥