234

उभयगुणयोगादिति । प्रसिध्द्यप्रसिद्धी द्वौ गुणौ । अत्र प्रत्यक्षानुमानरूपोपायभेदादविरोधः । तदेतदन्यमतेन विवृणोति—डलयोरैक्यमिति । सनीडः समीपं जलमज्जनशेषाहिवडवानलानामनर्थनिदानतया प्रख्यातानामपि सेवया महासाहसिकानामग्र्यता । अत्र डकारलकारयोर्भिन्नश्रुतिता प्रत्यक्षत एव । श्रुतिसाम्यं पुनरनुमानात्प्रतीयते । एवमुत्तरोदाहरणेष्वपि बोद्धव्यम् ॥

नणयोरैक्येन यथा—

‘बाणैः क्षुण्णेषु सैन्येषु त्वया देव रणाङ्गणे ।
हतशेषाः श्रयन्तीमे शून्यारण्यानि विद्विषः ॥ १७५ ॥’

अत्र क्षुण्णेषु सैन्येषु शून्यारण्यानीति नकारणकारयोः स्वल्पश्रुतित्वमेकत्वं वा भासत इति उपनागरोऽयं श्रुत्यनुप्रासः ॥

क्षुण्णेषु सैन्येष्विति । ग्रन्थिमहिम्ना नकारणकारयोः साम्यप्रतिभासः । रणाङ्गण इति । मध्यवर्तिनां संयोगेन साम्योन्मुद्रणम् । अङ्गणशब्दोऽधिकरणल्युडन्तः । पृषोदरादित्वाण्णत्वव्युत्पादनमनार्षम् । एवं शून्यारण्यानीत्यत्र व्याख्येयम् । आद्यन्तव्याख्यानमुपलक्षणमवसेयम् ॥

रलयोरैक्येन यथा—

‘विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥ १७६ ॥’

अत्र करीरनीलैरिति रेफलकारयोरैक्येन तुल्यश्रुत्या चतुर्ष्वपि पादेष्वनुप्रासनिर्वहणमित्युपनागरोऽयं श्रुत्यनुप्रासः ॥

निरन्तररेफग्रथनालीढस्येव लकारस्य श्रुतिसाजात्यमुल्लिखतीति तदिदमाह—अत्र करीरनीलैरिति । एतदनुप्राससिध्द्या चतुर्ष्वपि पादेषु रेफानुप्रासनिर्वहणमपि कविशक्तिव्युत्पत्तिव्यञ्जकमुपपन्नं भवतीत्याह—चतुर्ष्वपीति ॥

दन्त्यतालव्यानामैक्येन यथा—

‘विद्यास्यन्दो वाग्विदां यः प्रसन्नः पुण्यां वाचं देवतां तां नमामः ।
यां ब्रह्माणश्चिन्तयन्ते विशोकाः सा नो देयात्सूनृता सूनृतानि ॥ १७७ ॥’