235

अत्र दन्त्यतालव्यानामैक्येन तुल्यश्रुतिनेत्युपनागरोऽयं श्रुत्यनुप्रासः । सर्वेऽपि चानुप्रासाः प्रायेण विसदृशवर्णान्तरिता एव स्वदन्ते इत्यौष्ठ्यकण्ठ्यादीनामिहानुप्रवेशो भवति ॥

विद्यास्यन्दः सारस्वतप्रवाहः सैव वाग्देवता शब्दब्रह्मरूपा तच्चिन्तया परब्रह्माधिगमनिःश्रेणीभूतया शोकस्य इष्टहानिजखेदस्य विच्छेदः । अत्र स्यन्दः प्रसन्न इति दन्त्यौ सकारौ, ब्रह्माणश्चेतयन्तो विशोका इत्यादेशानादेशौ शकारौ तालव्यौ, पुनरन्ते सा सूनृतामीति त्रयो दन्त्याः, सर्वेषां संभूय पाठे तुल्यश्रुतितैव प्रतिभासत इति । ननु सजातीयानां निरन्तरमावापे कर्तव्ये किमिति विजातीयव्यवहितैरावृत्तिरुदाह्रियत इत्यत आह—सर्वेऽपीति ॥

यथा ज्योत्स्ना चन्द्रमसं यथा लावण्यमङ्गनाम् ।
अनुप्रासस्तथा काव्यमलंकर्तुमयं क्षमः ॥ ७६ ॥

श्लेषनिर्वाहकतया श्रुत्यनुप्रासोऽलंकार इत्युक्तम्, तच्च संदर्भव्यापकतयैव निर्वहतीत्याह—यथेति । ज्योत्स्नालावण्ययोः सर्वाङ्गीणा श्लेषसुभगयोरेवालंकारताप्रसिद्धिः ॥

अनुप्रासः कविगिरां पदवर्णमयोऽपि यः ।
सोऽप्यनेन स्तबकितः श्रियं कामपि पुष्यति ॥ ७७ ॥

नन्वेवमनुप्रासान्तरविषयेऽपि श्रुत्यनुप्रासः प्रसक्तस्तत्र च किमनेन करिष्यत इत्यत आह—अनुप्रासः कविगिरामिति । उक्तं हि—‘न घटनामन्तरेण काव्यभावः । न च काव्यमपहाय वर्णानुप्रासादीनामात्मलाभः’ इति ॥

मुहुरावर्त्यमानेषु यः स्ववर्ग्येषु वर्तते ।
काव्यव्यापी स संदर्भो वृत्तिरित्यभिधीयते ॥ ७८ ॥

स्ववर्ग्येष्विति । स्वशब्द आत्मीयवचनः । स्ववर्गे भवाः स्ववर्ग्याः कच टतपान्तःस्थोष्मोपलक्षिताः सप्तवर्गाः । स्ववर्ग्येषु वर्तत इत्यर्थकथनम् । माणिक्यस्तबकितहारलतावदन्योन्यालम्बनेन परभागलाभ इत्यभिप्रायतया च काव्यव्यापकेनैव संदर्भेण निरूप्यमाणा वर्ग्या वृत्तिर्वृत्त्यनुप्रास इति पर्यवसितोऽर्थः ॥

कार्णाटी कौन्तली कौङ्की कौङ्कणी बाणवासिका ।
द्राविडी माथुरी मात्सी मागधी ताम्रलिप्तिका ॥ ७९ ॥