238

संयोगो द्विविधः—सजातीयेन, अन्येन च । आद्यस्त्रिविधः—स्वर्ग्यान्तसरूपतदन्यसंयोगभेदात् । एते यथाक्रमं वृत्तित्रयं प्रयोजयन्तीत्याह—स्वान्त्येत्यादि । शिञ्जाना मधुरं शब्दायमानाः । मञ्जीरा नूपुराः । अत्र पूर्वार्धे स्वान्त्यसंयोगिनौ चवर्गौ, उत्तरार्धे तु कवर्गाविति ॥

सरूपसंयोगिग्रथितौण्ड्री यथा—

‘सल्लतापल्लवोल्लासी चित्तवि(वृ)त्तहरो नृणाम् ।
मज्जतीज्जलसज्जासु नदीषु मलयानिलः ॥ १८८ ॥’

सन्तः कमनीया लतानां पल्लवास्तदुल्लासनमात्रप्रवीणतया तीव्रताव्यतिरेकः । अत एव नृणां विदग्धमिथुनानां चित्तमेव सर्वस्वभूतं वित्तं हरतीति । इज्जला निचुलास्तैः सज्जाः सन्नद्धाः । निचुलनिकुञ्जसन्नद्धनदीमज्जनेन शीतलत्वमुन्मीलितम् ॥

असरूपसंयोगग्रथिता पौण्ड्री यथा—

‘अस्तमस्तकपर्यस्तसमस्तार्कांशुसंस्तरा ।
पीनस्तनस्थिता ताम्रकम्रवस्त्रेव वारुणी ॥ १८९ ॥’

अस्तोऽस्ताचलः । कम्रं कमनीयम् ॥

अकठोराक्षरादानं नातिनिर्वहणैषिणः ।
अशैथिल्यं च सत्कर्तुं वुत्त्यनुप्रासमीशते ॥ ८१ ॥

वृत्त्यनुप्रासरसिकस्य कवेः प्रसजमानं दोषमपाकर्तुं शिक्षामाह—अकठोरेति । तदुक्तम्— ‘परुषाभिधायिवचनादनुकरणाच्चापरत्र नो परुषम् । रचयेदथागतिः स्यात्तत्रापि ह्रादयो ह्रेषाः ॥’ अतिनिर्वाहे व्यक्तमेव वैरस्यम् । तदुक्तम्—‘सर्व एवानुप्रासाः प्रायेणे'त्यादि । कोमलमात्रवर्ग्यनिर्वहणे तु शैथिल्यसंभावनमिति ॥

क्वचिदस्ति क्वचिन्नास्ति क्वचिदस्ति न चास्ति च ।
वर्णानुप्रास एषा तु सर्वतोऽस्तीति भिद्यते ॥ ८२ ॥

नन्वनुप्रासाद् वृत्तीनां को विशेष इत्यत आह—क्वचिदिति । क्वचिदवृत्तिभागे चरणाद्यात्मके भवत्येव । क्वचित्पुनरंशभेदेन भवति न भवति च । तावतैव तस्यालंकारत्वम् । वृत्तिशरीरव्यापकतया निरूप्यमाणस्तु वर्ग्यान्तोऽन्य एव । अयं वर्णानुप्रासाद्वृत्त्यनुप्रास इत्यर्थः ॥