244

नियतविवक्षितस्थानविशेषः स्थानी यथा—

‘बाले मालेयमुच्चैर्न भवति गगनव्यापिनी नीरदानां किं त्वं पक्ष्मान्तरालैर्मलिनयसि सुधावक्रमश्रुप्रवाहैः ।
एषा प्रोद्वृत्तमत्तद्विपकटकषणक्षुण्णविन्ध्योपलाभा दावाग्नेर्व्योमलग्ना मलिनयति दिशां मण्डलं धूमरेखा ॥ २०३ ॥’

अत्र प्रथमत्रिभागस्थानेषु बाले मालेयमित्यादिनियमेन वृत्तिः । सोऽयं वर्णानुप्रासः स्थानीत्युच्यते ॥

स्थानीति । श्लोकपादेऽपि प्रथमादिभागकल्पनया स्थाननियमविवक्षा । तथाहि—बाले मालेयमिति । प्रथमो भागो नीनी इति प्रतिभासारूढस्तृतीयादि प्रथमपादे । एवं पक्ष्मान्तरालमलिनसुधाश्रुप्रभृतीनां द्वितीयादिपादेषु प्रथमादिभागकल्पनावसेया ॥

आवृत्तेर्वर्णान्तरायेण गर्भो यथा—

‘कालं कपालमालाङ्कमेकमन्धकसूदनम् ।
वन्दे वरदमीशानं शासनं पुष्पधन्वनः ॥ २०४ ॥’

अत्र कालं कपालमालेति, अङ्कमेकमिति, वन्दे वरदमीशानं शासनमित्यादिषु पकाररेफककारगर्भाधानादयं वर्णानुप्रासो गर्भ इत्युच्यते ॥

कालं कालस्वरूपम् । एकमद्वितीयम् । कालं कपालेत्यत्र लकारावृत्तिः ककारेण व्यवधाने प्रकृते कपालेऽन्यत्र पकारो । वर्णान्तरगर्भायमाण उपलक्ष्यते । एवं मालाङ्कमित्यादौ लकारादिगर्भीकरणमवसेयम् । विवृतसंवृतौ निगदेनैव व्याख्यातौ ॥

स्थाने स्थाने विकाससंकोचाभ्यां विवृतसंवृतो यथा—

‘न मालतीदाम विमर्दयोग्यं न प्रेम नव्यं सहतेऽपराधान् ।
म्लानापि न म्लायति केसरस्रग्देवी न खण्डप्रणया कथंचित् ॥ २०५ ॥’

अत्र प्रथमपादे न मालतीदामेत्यादिभिर्विकासः, द्वितीयपादे प्रेमेत्याकारावृत्त्या संकोचः, तृतीयपादे म्लानापि न म्लायतीत्येताभ्यां च विकासः, चतुर्थे नेति संकोचः । सोऽयं वर्णानुप्रासो विवृतसंवृत इत्युच्यते ॥