247

आवाक्यपरिसमाप्तेर्वर्णानुप्रासनिर्वाहो वेणिका यथा—

‘विद्राणे रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवज्रे जाताशङ्के शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे ।
वैकुण्ठे कुण्ठितास्त्रे महिषमतिरुषं पौरुषोपघ्ननिघ्नं निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी ॥ २११ ॥’

तदेतन्नातिदुर्बोधम् । सोऽयं वर्णानुप्रासो वेणिकेत्युच्यते ॥

विद्राण इति । उपघ्न आश्रयः । निघ्नः परवशः । अनुप्रासजातेरासमाप्ति निर्वाहोऽभिमतः । व्यक्तयः पुनरन्या अन्या एवाभिमतास्तेन वृत्त्यनुप्रासाद्भेदः । अत एव वेणीतुल्यता । तत्र हि किल केशग्रथना निर्व्यूढैव भक्तिः पुनरन्यान्येति ॥

उक्तलक्षणेभ्योऽन्यश्चित्रो यथा—

‘नीते निर्व्याजदीर्घा मघवति मघवद्वज्रनिद्रानिदाने निद्रा द्रागेव देवद्बिषि मुषितरुषः संस्मरन्त्याः स्वभावम् ।
देव्या दृग्भ्यस्तिसृभ्यस्त्रय इव गलिता राशयो रक्तताया रक्षन्तु त्वां त्रिशूलक्षतिकुहरभुवो लोहिताम्भःसमुद्राः ॥ २१२ ॥’

एवमन्येऽपि द्रष्टव्याः ॥

उक्तलक्षणेभ्य इति । पूर्वोक्तवर्णानुप्रासेभ्य इति । तथाहि प्रकृतोदाहरणे स्थाने स्थाने स्तबकाविवक्षायां न स्तबकवान्, विभागपरिहारेण न स्थानी, वर्णान्तरायानुपपत्तौ न गर्भः, संकोचविकासाभावेन न विवृतसंवृतः, चक्रवालक्रमाभावेन न गृहीतमुक्तः । एवं क्रमविपर्यस्तमिथुनबहिर्भावोऽवगन्तव्यः । आसमाप्तिनिर्वहणाभावे वेणीभेदः स्फुट एव ॥

एकवर्णावृत्तेर्वृत्त्यनुप्रासस्य वर्णान्तरवैचित्र्येण विचित्रो यथा—

‘चञ्चत्काञ्जनकाञ्चयो लयवलच्चोलाञ्चलैर्वञ्चिताश्चारीसंचरणैकचारुचरणाः सिञ्चन्ति चित्तं मम ।
लीलाचञ्चुरचञ्चरीकरुचिभिश्चूलालकैश्चर्चिताः किंचिच्चन्दनचन्द्रचम्पकरुचां चौर्यो मृगीलोचनाः ॥ २१३ ॥’