252

जोण्हा उण्हा रिसो रसो इत्यादिका प्रतिपादं मध्यान्तस्थाननियमेनावृत्तिः । क्षतोऽर्पितः क्षारः । जलार्द्रा जलार्द्रे वस्त्रे ॥

मिथुनं यथा—

‘पुरः पाराऽपारातटभुवि विहारः पुरवरं ततः सिन्धुः सिन्धुः फणिपतिवनं पावनमतः ।
तदग्रे तूदग्रो गिरिरिति गिरिस्तस्य पुरतो विशाला शालाभिर्ललितललनाभिर्विजयते ॥ २२४ ॥’

तदेतत्प्रतिपादं द्वयोर्द्वयोः पदानुप्रासयोर्विन्यासान्भिथुनम् ॥

पाराभिधाना नदी । अपारा पाररहिता । सिन्धुर्नदी सिन्धुनामा । विशाला उज्जयिनी । शालाभिरितीत्थंभूतलक्षणें तृतीया । अत्र पारापारेति सिन्धुः सिन्धुरिति दग्रे दग्र इति शालाशालेति क्रमेण प्रथमादिपादेषु द्वयोरेवानुप्रासयोर्विन्यासः । यद्यपि तृतीयपादे गिरिगिरीति द्वितीयमपि मिंथुनं संभवति तथापि वर्णद्वयव्यवधानादनुल्लेखीत्युपेक्षितवान् ॥

मिथुनावली यथा—

‘शिरसि शरभः क्रोडे क्रोडः करी करटे रट- न्नुरसि च रुरुर्मर्मण्येणः शिखी मुखरो मुखे ।
कविरपि हृदि ह्रादी दूराद्धरिर्द्विपजिद्धतो धनुषि लघुता लक्ष्येऽपूर्वो जयोऽस्य यशस्विनः ॥ २२५ ॥’

सेयं द्वयोः पादयोर्निरन्तरमावृत्तिर्मिथुनावलीत्युच्यते ॥

शिरसीति । शरभोऽष्टापदः । क्रोडो वराहः । रुरुर्बहुशृङ्गो मृगः । हरिः सिंह । स्वरभागविवक्षायां व्यञ्जनयुगलावृत्तिर्मिथुनम् । तदेवावृत्तिभूम्ना मिथुनावली शरशरेति क्रोडक्रोडेति करकरेति दवदवेत्यादिना क्रमेण सुप्रत्यभिज्ञानैव ॥

गृहीतमुक्तो यथा—

‘पुंनागनागकेसरकेसरपरिवासवासनासुरभिः ।
सुरभिर्मधुरमधुप्रियषट्चरणाचरणवान्प्राप्तः ॥ २२६ ॥’

सोऽयं चक्रवालवदनुप्रासो गृहीतमुक्त इत्युच्यते ॥