265

नन्वन्येऽपि पदावृत्तिप्रकाराः किमिति नोदाहृता इत्यत आह—यमकानां हीति । भेदभक्तयोऽवान्तरप्रकारविच्छित्तयः स्थानास्थानपादभेदलक्षणा श्लोकावृत्तिः परमत्र नास्तीति यमकादपकर्षः ॥

उपमादिवियुक्तापि राजते काव्यपद्धतिः ।
यद्यनुप्रासलेशोऽपि हन्त तत्र निवेश्यते ॥ १०६ ॥

प्रकरणान्तेऽनुप्रासव्युत्पादनप्रयोजनमाह—उपमादीति । अनुप्रासलेशोऽपीति । वर्णाद्यनुप्रासः ॥

कुण्डलादिवियुक्तापि कान्ता किमपि शोभते ।
कुङ्कुमेनाङ्गरागश्चेत्सर्वाङ्गीणः प्रयुज्यते ॥ १०७ ॥

श्रुतिवृत्त्यनुप्रासौ तु संदर्भव्यापकावेव प्रशस्तावित्युदाहरणव्याजेनाह—कुण्डलादीति ॥

श्रुतिवर्णानुप्रासावेकविधौ कुन्तलेषु गौडेषु ।
पदयोर्निरनुप्रासो द्वेधा त्रेधा च लाटेषु ॥ १०८ ॥

एतदेव खण्डसरस्वतीषु कविषु न तथा काव्यसिद्धिरिति दर्शयन्द्रढयति—श्रुतिवर्णानुप्रासाविति ॥

'वर्णस्थानस्वराकारगतिबन्धान्प्रतीहयः ।
नियमस्तद्बुधैः षोढा चित्रमित्यभिधीयते ॥ १०९ ॥’

क्रमप्राप्तं चित्रलक्षणमवतारयति—वर्णेति । चित्रमालेख्यं तदिव जीवितस्थानीयध्वनिरहितं चित्रमिति काश्मीरकाः । तदसत् । ध्वनेः प्राधान्यानङ्गीकारात्प्रतीयमानमात्राभावस्य क्वचिदप्यसंभवात् । यद्वा आकृतिविशेषयुक्तं चित्रमिति तदपि न । अव्यापकत्वात् । अतो वर्णादिनियमेन प्रवृत्तमाश्चर्यकारितया चित्रमित्येव युक्तम् । वर्णा व्यञ्जनानि । स्थानं कण्ठादि । स्वरा अकारादयः । आकारः पद्माद्याकृत्युन्मुद्रणम् । गतिः पठितिभङ्गविशेषः । बन्धो विविडितिप्रभृतिः ॥

वर्णशब्देन चात्र स्वराणां पृथङ्निर्देशाव्द्यञ्जनान्येव प्रगृह्यन्ते । तत्र वर्णचित्रेषु चतुर्व्यञ्जनं यथा—

‘जजौजोर्जाजिजिज्जाजी तं ततोऽतिततातितुत् ।
भाभोऽभीभाभिभूभाभूरारारिररिरीररः ॥ २५९ ॥’