षड्जादीति । ‘सरिगामपधानिश्च वर्णाः सप्त स्वरादयः । षड्जादिकृतसंकेता दृष्टा गान्धर्ववेदिभिः ॥’ तन्मात्रव्यञ्जनमयं षड्जादिव्यञ्जनम् । सह एन विष्णुना वर्तते इति सा लक्ष्मीः । अरीन् धमति तापयति इति धमतेर्ल्युटि बहुलवचनमन्यत्रापीति धमादेशः । एवंविधा मम भूयादिति शेषः । निधानिनी पद्मादिनिधानवती । साम्नः सान्त्वस्य धाम गृहम् । धनिनां धामसाधिनी तेजःप्रसाघिका । मानिनी पूजावती । सगरिमा गौरववती । अपपापान्निष्कलुषान् पातीत्यपपापपा । सेति प्रसिद्धविभवा आपगा नदी । समः तत्तुल्यः क्षणविसर्पा भङ्गुरः समागमो यस्याः सा तथा । असमा अनुपमा ॥