273

अत्र—

‘कर्णिकायां न्यसेदेकं द्वे द्वे दिक्षु विदिक्षु च ।
प्रवेशनिर्गमौ दिक्षु कुर्यादष्टदलाम्बुजे ॥ २८५ ॥

या श्रितेत्यादिकमुदाहरणं प्रागेव (प० १ श्लो० १७०) व्याख्यातम् । अतः परं हारिहरिव्याख्या । साप्यत्रैव लिख्यते । तद्यथा—या देवी पवित्रत्वेनाश्रिता अनीचया तुङ्ग्या बुध्द्या मायायामस्याविद्याविस्तारस्यायासं ग्लानिं विच्छेदं याचनीया प्रार्थनीया यतो यातनं नरकानुभवनीयं दुःखं छिनत्ति श्रियापि स्तुतेति ॥ अस्य न्यासमाह—कर्णिकायामिति । आद्यो यावर्णः कर्णिकायां श्रितेति पावेति क्रमेण द्विकं द्विकमष्टपत्रेषु । याश्रिता श्रियेत्यादौ दिग्दलेषु प्रवेशनिर्गमौ ॥

द्वितीयमष्टदलं यथा—

‘चरस्फारवरक्षार वरकार गरज्वर ।
चलस्फाल वलक्षालवल कालगल ज्वल ॥ २८६ ॥’
अष्टधा कर्णिकावर्णः पत्रेष्वष्टौ तथापरे ।
तेषां संधिषु चाप्यष्टावष्टपत्त्रसरोरुहे ॥ २८७ ॥

चरस्फारेत्यादि । संचरणशीलः स्फारो यो वरस्तं क्षरति ददाति इति । वराञ्छ्रेष्ठान् किरति क्षिपति कृणोति हिनस्ति वेति कर्मण्यण् । गरः कालकूटस्तस्य ज्वरो ज्वरणात् । ताण्डवारम्भे चलाः स्फाला यस्य । वलक्ष धवलदेह, अलवल प्राप्तशक्ते, कालगल नीलकण्ठ, ज्वल दीप्यमानो भव ॥ न्यासमाह—अष्टधेति । अथ प्रथमार्धे एक एव रेफोऽष्टधा कर्णिकायाम् । अपरार्धस्यान्येऽष्टौ लकारवर्जं दलेषु चेषां संधिष्वन्येऽष्टौ लकाराः ॥

तृतीयमष्टपत्त्रं यथा—

‘न शशीशनवे भावे नमत्काम नतव्रत ।
नमामि माननमनं ननु त्वानुनयन्नयम् ॥ २८८ ॥’

अत्र—

प्राक्कर्णिकां पुनः पर्णं पर्णाग्रं पर्णकर्णिके ।
प्रतिपर्णं व्रजेद्धीमानिह त्वष्टदलाम्बुजे ॥ २८९ ॥