चरस्फारेत्यादि । संचरणशीलः स्फारो यो वरस्तं क्षरति ददाति इति । वराञ्छ्रेष्ठान् किरति क्षिपति कृणोति हिनस्ति वेति कर्मण्यण् । गरः कालकूटस्तस्य ज्वरो ज्वरणात् । ताण्डवारम्भे चलाः स्फाला यस्य । वलक्ष धवलदेह, अलवल प्राप्तशक्ते, कालगल नीलकण्ठ, ज्वल दीप्यमानो भव ॥ न्यासमाह—अष्टधेति । अथ प्रथमार्धे एक एव रेफोऽष्टधा कर्णिकायाम् । अपरार्धस्यान्येऽष्टौ लकारवर्जं दलेषु चेषां संधिष्वन्येऽष्टौ लकाराः ॥