276 त्तिष्ठति तदाह—‘राजशेखरकमल’ । कविकाव्यनामलाभादंविभक्तिकत्वमप्यदोषः । एतेनेति । नामाङ्कपद्मकथनेन चक्रमपि नामाङ्कमवसेयम् ॥

चक्रं यथा—

‘स त्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो लब्धाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिर्मुदा ।
मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरे- रेकौघैः समकालमभ्रमुदयी रोपैस्तदातस्तरे ॥ २९६ ॥’
पुरः पुरो लिखेत्पादानत्र त्रीन्षडरीकृतान् ।
तुर्यं तु भ्रमयेन्नेमौ नामाङ्कश्चक्रसंविधिः ॥ २९७ ॥

अत्राङ्कः—‘माघकाव्यमिदं शिशुपालवधः' ॥

स त्वमित्यादि । हरेर्नादं सिंहनादं रोपैर्बाणैराजिरभसात्सङ्ग्रामहर्षादुद्धरतरश्रीवत्सभूमिरुन्नतहृदयः स त्वमालम्ब्य मानेन तद्विशिष्टमिति विशेषणम् । प्राप्तपापविनाशो मुदा हर्षेण अपगतभीः शत्रुर्हरिणव्याधोऽभ्रमाकाशं पिदधे तदा तस्मिन्काले सिंहनादमुक्त्वेति संबन्धः ॥ न्यासमाह—पुर इति । पुरः पुरो लिखित्वान्यानग्रे लिखेद्यथा षडराः संपद्यन्ते ॥

एवं चतुरङ्कमपि यथा—

‘शुद्धं बद्धसुरास्थिसारविषम त्वं रुग्जयातिस्थिर भ्रष्टोद्धर्मरजःपदं गवि गवाक्षीणेन चञ्चद्भुवा ।
तथ्यं चिन्तितगुप्तिरस्तविधिदिग्भेदं न चक्रं शुचाचारोऽप्रांशुरदभ्रमुग्र तनु मे रम्यो भवानीरुचा ॥ २९८ ॥’

अत्राङ्कः—‘शुभ्रतरवाचा बद्धचितिचक्रं राजगुरुणेदं सादरमवादि' ॥

यथा वा—शुद्धमित्यादि । चक्रं मे मम गवि वाचि शुद्धमकलुषम्, धर्मादुत्कान्तमुद्धर्ममीदृशं यद्रजो राजसभावस्तस्य पदं स्थानं तद्भ्रष्टं विनष्टं यस्मात् । अस्ता विधिदिग्दैवपारतन्त्र्यं यत्र तथाविधं, शुचा शोकेन च न वक्रीकृतमनपहतमदभ्रमुपचितं यद्भद्रं कल्याणं तत्तनु विस्तारयेति प्रार्थना । बद्धैरलंकारीकृतैः सुराणां ब्रह्मादीनां सारं शिरस्तदस्थिभिर्बद्धमुण्डमालाभिर्भयानक । रुजां रोगाणां जयेनाति-