281

द्विश्रृङ्गाटकबन्धो यथा—

‘करासञ्ज वशेशं खगौरव स्य कलारसम् ।
संधाय वलयां शङ्कामगौरीं मे वनात्मक ॥ ३१३ ॥’
‘श्रृङ्गाद्ग्रन्थिं पुनः श्रृङ्गं ग्रन्थिं श्रृङ्गं व्रजेदिति ।
द्विश्रृङ्गाटकबन्धेऽस्मिन्नेमिः शेषाक्षरैर्भवेत् ॥ ३१४ ॥

अत्राङ्कः—‘राजशेखरस्य' ॥

द्वे शृङ्गाटके मिथो वैपरीत्येन यत्र शिखरं द्विशृङ्गाटकम् । करैः किरणैरासञ्जयतीति करासञ्जः । खे व्योम्नि गौरवं यस्य स तथा । वनात्मक जलस्वरूप । चन्द्रकलासु रसमनुरागं संधाय कृत्वा अन्तःस्वच्छतया दृश्यनभोभागनेमिमद्वलयाकारोल्लेखिनीं मे ममागौरीं श्यामां शङ्कामपनय । स्य इति क्रियापदम् । पूर्णो भवेति यावत् । वशेशमायत्तशंकरमिति क्रियाविशेषणम् ॥ न्यासमाह—श्रृङ्गादिति । शेषाक्षरैरिति । आद्यात्ककारादारभ्य यावत्समाप्ति शेषाण्यक्षराणि तैर्नेमिरिति न्यासः । अत्र ग्रन्थिवर्णैरेव ‘राजशेखरस्य’ इति नामाङ्कवर्णावली लभ्यते ॥

विविडितबन्धो यथा—

‘सा सती जयतादत्र सरन्ती यमितात्रसा ।
सारं परं स च जयी शमितास्यन्दनेनसा ॥ ३१५ ॥’
‘शिखरादन्यतरस्मात्प्रतिपर्व भ्रमति रेखयाद्यर्धम् ।
नेमौ तदितरमर्धे विविडितचक्राभिधे बन्धे ॥ ३१६ ॥

विविडितबन्धस्तु पञ्चशृङ्गचक्रम् । तद्देवताम्नाये दर्शितम् । ‘कर्पूरकुन्दगौरीं तनुमतनुं कार्मुकभ्रूकाम् । वरदानसुन्दरकरां विविडितचक्रस्थितां वन्दे ॥’ सेति । प्रसिद्धानुभावा सती गौरी सरन्ती निरर्गलप्रसरा न त्रस्यतीत्यत्रसा । अस्यन्दनेन स्थिरेण एनसा कल्मषेण शमिता विक्लवीभूता । रहितेति यावत् । ‘शम वैक्लव्ये' । अत्र जगति परं सारं यं भगवन्तमिता संगता । स च जयी महेश्वरो जयतादिति ॥ न्यासमाह—शिखरादिति । ‘अन्यतमाद्वा’ इति पाठः । ‘अन्यतमस्मात्’ इति पाठे तु सर्वनामत्वं चिन्त्यम् । केचित्तु ‘किंयत्तदेकान्येभ्यः’ इति पठित्वा डतम-