282 द्वारिकां सर्वनामतामाहुः । गणे चान्यतरशब्दं न पठन्ति । अव्युत्पत्तिमात्रं चेदम् । अनिर्धारितैकाभिधायकस्त्वन्यतमशब्दः ॥

शरयन्त्रबन्धो यथा—

‘नमस्ते जगतां गात्र सदानवकुलक्षय ।
समस्तेऽज सतां नात्र मुदामवन लक्षय ॥ ३१७ ॥’
‘चतुर्ष्वपि च पादेषु पङ्क्तिशो लिखितेष्विह ।
आदेरादेस्तु रङ्गस्य पादैः पादः समाप्यते ॥ ३१८ ॥

नमस्त इत्यादि । जगतां नामरूपप्रपञ्चस्य गात्रभूत दानवकुलक्षयेण सहित मुदां हर्षाणां रक्षक अज विष्णो, अत्र जगति सतां मध्ये न कोऽपि ते तव समः । ततो लक्षय दृक्पातेनानुगृहाण । मामिति शेषः ॥ न्यासमाह—चतुर्ष्वपीति । शेषं सुबोधम् ॥

व्योमबन्धो यथा—

‘कमलावलिहारिविकासविशेषवहं जनकाङ्क न नगामिकरं दिवि सारमनारमणं जरतां न ।
तमसां बलहानिविलासवशेन वरं जनकान्त न नमामि चिरं सवितारमनादिमहं जगतां न ॥ ३१९ ॥’
अष्टादशशिखरचरीं गोमूत्रिकया चतुष्पदीं पश्येत् ।
यत्राद्यन्तैर्दृष्टां स ज्ञेयो व्योमबन्ध इति ॥ १११ ॥

कमलावलिषु पद्मखण्डेषु प्रशस्तेषु हारी मनोज्ञो यो विकास[विशेष]स्तस्य वोढारं जनैर्लोकैः स्तुत्यं तदीयं कं शिरस्तत्राङ्क चिह्नभूत, न नगामिकरं, किंतु विसृत्वरकिरणमेव दिवि वैमानिकपथे सारभूतं जरतां परिणतानामनारमणं न, किंतु प्रीतिकरमेव । तमसां बलहानौ यो विलासवशः संततो व्यापारस्तेन वरमुत्कृष्टं, जनकान्त लोकहृदयंगम, जगतामनादिं न, किंत्वादिमेव । एवंविधं भगवन्तं सवितारमहं न नमामि किंतु नमाम्येव ॥ न्यासमाह—अष्टादशेति । आद्यन्तैर्दृष्टामिति । पादाद्यन्तवर्णयोरैक्यादिति बोध्यम् ॥