तालतरोर्यत्सारं खाद्यभागस्तत्प्रभेवावदाता प्रभा यस्याः । राका पूर्णिमा । तारकापतिना चन्द्रेण दंशिता कवलिता । मारस्य कामस्य धाम स्थानं यत्र । रमया लक्ष्म्या अधीताभ्यस्ता । सलक्ष्मीकेत्यर्थः । वलयामास चालितवती, बलवन्तं वा चकार । ‘विन्मतोर्लुक्’ इत्यनुशासनात् ॥—क्रमेणैवेति । तुर्याच्च पादप्रथमाक्षरादुपक्रमे येन येन मार्गेण मुरजाकृतिर्लभ्यते तेनायमपरः श्लोको भवति ॥ वरस्य ईप्सितस्य वस्तुनः कारः कारणं तत्प्रदं तारं दीप्तं धाम कान्तिर्यस्याः । असमा अनन्यसाधारणी आसिका स्थितिर्यस्याः सा नायिका लतामालया संकेतलतामण्डपेन अमा सार्धं आप प्राप्तवती । तारा रोहिणीप्रभृतिस्तदात्मा, तारैर्निर्मलमौक्तिकैर्वा भाति या । अतिशयितेन रसेन पूर्णा उपगता संगता । प्रकृतोदाहरणेऽष्टाक्षरप्रस्तावान्तःपाती यः प्रकारस्तदन्तःपाती मुरजाक्षरैर्लभ्यते ॥