285 च्चोपक्रम्य द्वितीयचतुर्थपादसंदंशेन गोमूत्रिकया प्रथमद्वितीययोस्तृतीयचतुर्थयोश्च परस्परमुन्मेषणमितीयमयुक्पादगोमूत्रिका ॥

युग्मतो यथा—

‘देवः शशाङ्कशकलाभरणः पिनाकी देयः शमैकविकलेभरणः सनागः ।
चित्ते महासुरजनेन शुभं विधत्तां चित्तं महासुरजनानतभङ्गधन्वा ॥ ३२५ ॥’

महासुरजनेन ब्रह्मादिना चित्ते देयो धारणीयः । शमेनैकेन विकलीकृत इभरणो गजानामुरुयुद्धं येन । शुभं कल्मषरहितं चित्तं विधत्ताम्, अविशेषेण संसारिणामेव । अत्र पूर्ववत्समपदमुपक्रम्य विषमपादसंदंशेन समाप्तिरिति विशेषस्तेनेयं युक्पादगोमूत्रिका ॥

अर्धश्लोकगोमूत्रिका यथा—

‘चूडाप्रोतेन्दुभागद्युतिदलिततमस्कन्दलीचक्रवालो देवो देयादुदारं शममरजनतानन्दनोऽनन्यधामा ।
क्रीडाधूतेशभामा द्युसदनतनिमच्छेदनी च भ्रुवा नो देहे देवी दुरीरन्दममरतनता नन्दिनोमान्यधामा ॥ ३२६ ॥’

इन्दोर्भागः खण्डं । शं कल्याणं । अमरजनता देवसमूहः । नास्त्यन्यद्धाम स्थानं यस्य सोऽनन्यधामा । स्वात्माराम इत्यर्थः । न परं देवो देवी च । भ्रुवा भ्रूक्षेपेण दुरीरन्दूरमपनयन् नोऽस्माकं देहे दमं देयादिति संबन्धः । धूतेशभामा प्रणयेनापहृतपरमेश्वरप्रणयरोषा । ‘भाम क्रोधे’ इति धात्वनुसारात् । द्युसदना देवाः । अरतमविश्रान्तं नन्दिना नता उमा गौरी । अपूर्वं धाम तेजो यस्याः ॥

श्लोकगोमूत्रिकायां प्रथमश्लोको यथा—

‘पायाद्वश्चन्द्रधारी सकलसुरशिरोलीढपादारविन्दो देव्या रुद्धाङ्गभागः पुरदनुजदवस्त्यानसंविन्निदानम् ।
कंदर्पः क्षोदपक्षः सरससुरवधूमण्डलीगीतगर्वो दैत्याधीशान्धकेनानतचरणनखः शंकरो भव्यभाव्यः ॥ ३२७ ॥’