286

द्वितीयो यथा—

देयान्नश्चण्डधामा सलिलहरकरो रूढकन्दारविन्दो देहे रुग्भङ्गरागः सुरमनुजदमं त्यागसंपन्निधानम् ।
भन्दं दिक्क्षोभदश्रीः सदसदरवधूखण्डनागीरगम्यो- ऽदैत्यैधी बन्धहानावततरसनयः शंपरो दिव्यसेव्यः ॥ ३२८ ॥’

पुराख्यदानवस्य दवो दावाग्निः स्त्यानायाः घनायाः संविदो निदानम् । दैत्याधीशेनान्धकेनानतचरणः । भव्यानामुत्तमानां भाव्यो ध्येयः । रूढकन्दान्यरविन्दानि यस्मात् । प्रणतानां रुगनुरागो यस्य । सुराणां मनुजानां च दमं दमतीति वा । त्यागसंपदो निधानमाश्रयः । दिशां क्षोभदायिका श्रीर्यस्य । सदे उपवने सदरा सभया या वधूस्तदीयानां खण्डनागिरां निर्भर्त्सनवचसामविषयः । अदैत्यैधी न दैत्यवर्धनः । संसारबन्धविच्छित्तये विस्तीर्णरयो नयो यस्य । शं सुखं पिपर्ति पूरयतीति शंपरो दिव्यः सेव्यश्चेति । एवंविधश्चण्डधामा रविर्नोऽस्माकं देहे भन्दं कल्याणं देयादित्यर्थः ॥

विपरीतगोमूत्रिकायां प्रथमश्लोको यथा—

‘विनायकं दानसुगन्धिवक्त्रं स्मिताननं मन्दचरं कथासु ।
नमामि विघ्नावलिहारिसारं सतीसुतं शंकरवल्लभं च ॥ ३२९ ॥’

विपरीतश्लोको यथा—

‘चलल्लतारब्धशमं सुभासं संसारहारं बहुविप्रमान्यम् ।
सुधाकरं चन्द्रमसं नतोऽस्मि सवर्णगर्भं नवकम्बुनाढ्यम् ॥ ३३० ॥’

मन्दचरं मन्दालसगमनम् । कथासु भक्तदेवानां वार्तासु महाशयतया स्मेराननम् । विघ्नपरम्पराहारिणां च सारमुत्कृष्टम् । चलन्तीनां लतानामारब्धं सान्त्वनं येन । बहुविप्रमान्यं द्विजराजशेखरत्वात् । समानवर्णमध्यगम् । नवेन कम्बुनाढ्यमुपचितम् । आद्यश्लोकस्याधस्ताद्विपरीतो द्वितीयश्लोको लेख्यः । ततः क्रमगोमूत्रिकया परस्परोल्लेखः ॥

भिन्नच्छन्दोगोमूत्रिकायां प्रथमश्लोको यथा—

‘नमत चन्द्रकलामयमण्डनं नगसुताभुजसंगतकन्धरम् ।
हरमभाग्यरदं स्तवसादरं समितिरावणशासनविक्रमम् ॥ ३३१ ॥’