नखेति । हे ललिते गौरि, तव शोभनया दृशा सुतनोः शोभनस्य शरीरस्य । साध्या देवविशेषाः खभुवो ग्रहताराद्याः ( राप्यत इति राप्यम् । ‘आसुवपिरपित्रपिचमश्च’ इति रापतिभाषितमित्यर्थः ।) दर्येति पाठेन वा योजनीयम् । पदविच्छेदिनीति । पदान्यत्र प्रतिपादं सुधाकलशाभिधाने छन्दसि षड् विभज्यन्ते । यद्यपि द्वितीयतृतीयपादयोश्चकाराभ्यां नकारेण चतुर्थपादे तवेति 291 पदाधिक्यं तथाप्याद्यपदार्थानुरोधेन समुच्चीयमाननिषिध्यमानार्थानुरञ्जकत्वेन संबोध्यमानार्थानुयायितया चकारनकारयोस्तवेति च तत्पादावयवरूपा एवेति तदसत्कल्पमेव । तथा च षड्भ्यः पदत्रय उपादीयमाने सप्तदशाक्षरायां जातौ यथासंख्यानुरोधेनाद्येऽर्धे प्रस्ताररचनाक्रमेण दश विकल्पाः, तृतीयचतुर्थयोश्च पादयोस्तावन्तस्तावन्त एवेति दशभिराहतैर्दशभिः शतम् । शतेन चाहतैर्दशभिः सहस्रं तर्णकाः श्लोकाः समुत्पद्यन्त इतीयं सहस्रधेनुः ॥