293
स्वल्पं शेषे कल्पं प्रेषेऽचिति चरसि यशसि यतसे चले युधि गल्भसे ब्रूषे वामं श्रूषे कामं हृदि विशसि वचसि सचसे रुचे दृशि दीप्यसे ॥’
संबोधनैर्द्वितीयान्तैः सप्तम्यन्तैः क्रियापदैः ।
श्लोककोटिरियं तिस्रः सार्धा धेनुः प्रसूयते ॥ १२२ ॥
यदा तु संभ्रमादिभ्यो भवन्त्यस्या द्विरुक्तयः ।
स्थूलादिना तदा चैषा दशकोटीः प्रसूयते ॥ १२३ ॥

स्थूलमिति । प्रेष इति इष गतावित्यस्य, चिति चैतन्ये, गृधु गार्घ्ये । सचसे वचसे रमे जये चले रुचे इति देव्याः संबोधनपदानि । संबोधनैरिति । अत्र भुञ्जङ्गविजृम्भिते छन्दसि एकादशभ्यः पदेभ्यः पञ्चसु षट्सु च पदेषु उपादीयमानेषु जगतीजातौ प्रसिद्धाक्षरोज्ज्वला जलधरमाला नवमालिनी छन्दःसु सप्ततौ । द्वितीये पूर्वेषु चन्द्रवर्त्मद्रुतविलम्बितमणिमालाप्रभवत्सु च शते तृतीयेऽस्मिन् प्रथमपादच्छन्दस्येव पञ्चाशति चतुर्थपादे द्वितीयपादच्छन्दस्येव शतेषु विकल्पेषु प्रभव्रत्सु सप्तत्याहतेषु शतेषु सप्ततिसहस्राणि शतैराहतायां सप्ततिलक्षाणि, सप्ततिसहस्रैंराहतेषु पञ्चाशल्लक्षाणि त्रीणि सहस्राणि च पञ्चशतैराहते शते कोट्यस्तिस्रः सार्धास्तर्णकाः श्लोकाः संपद्यन्त इतीयं कोटिधेनुः । यदा त्विति । तथाहि पदत्रये पदचतुष्के पदपञ्चके चोपादीयमाने पूर्वस्यामेव जातौ प्रथमद्वितीयचतुर्थेषु पादेषु प्रत्येकं जलधरमालाप्रभाच्छन्दसोरेकस्य द्वयोर्द्विरुक्त्या शते तृतीयस्मिंश्च पूर्वस्यां मणिमालोज्ज्वलानवमालिनीतामरसेषु छन्दःसु तथैव शते विकल्पेषु प्रभवत्सु शतेनाहते शते दश सहस्राणि तैश्चाहते शते दश लक्षाणि तैरप्याहते शते कोट्यस्तर्णकाः श्लोकाः संपद्यन्त इतीयमेव दशकोटिधेनुः ॥

कामधेनुर्यथा—

‘या गीः शीः श्रीर्धी स्त्री ह्रीर्भीर्जूर्मूस्तूः सूः स्त्रूर्धूः पूर्भूः ।
स्त्रुक् स्रग्युग्भुग्रुक् शुक् तृट् द्विट् युत् क्रुत् चिद्विन्मुग्दिग्द्यूः ॥ ३४४ ॥’

ऋक् दृक् वामा मृत्कृद्भामा मुत्क्षुत्कामा द्वार्द्यौर्गौः

सामायामा वेघावेघानाघातेत्वं येनौः

यानं यातीति या, काचिच्च या । गिरणं गिरतीति वाकू च गीः । शरणं