296
उक्तिप्रत्युक्तिमद्वाक्यं वाकोवाक्यं विदुर्बुधाः ।
द्वयोर्वक्रोस्तदिच्छन्ति बहूनामपि संगमे ॥ १३१ ॥
ऋजूक्तिरथ वक्रोक्तिर्वैयात्योक्तिस्तथैव च ।
गूढं प्रश्नोत्तरोक्ती च चित्रोक्तिश्चेति तद्भिदा ॥ १३२ ॥

तासु ऋजूक्तिर्द्विधा । ग्राम्योपनागरिका च । ग्राम्या यथा—

‘जन्तीमणुरुन्धुं रुचु कुहुतुण्डउष्ण उको विहंसण होमि ।
महोमि भारुञ्चुले मेल्लासतो विकिणकु उवाणउ उज्जु अक्खु कहहि ३४५
‘वाणउ उज्जु माइगहिल्ल उअण्णवि कोमह्लण उ वारिज्जन्तु ण्णट्ठाइ ।
करइ वलिवं उउ च वक्कस मच्छलु अहिमुहं हि तरुणिहिं अअच्छासइ दुक्कम् ॥ ३४६ ॥’

सेयमुभयतोऽपि ऋजुनैव मार्गेणोक्तिप्रत्युक्त्योः समा प्रवृत्तिरितीयमृजूक्तिर्नाम वाकोवाक्यम् ॥

सैवोपनागरिका यथा—

‘बाले, नाथ, विमुञ्च मानिनि रुषं, रोषान्मया किं कृतं, खेदोऽस्मासु, न मेऽपराध्यति भवान् सर्वेऽपराधा मयि ।
तत्किं रोदिषि गद्गदेन वचसा, कस्याग्रतो रुद्यते, नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते ॥ ३४७ ॥’

सेयमेकतः काक्वा कुटिलेऽतिविषमेयमृजूक्तिर्नाम वाकोवाक्यम् ॥

वक्रोक्तिर्द्विधा । निर्व्यूढा अनिर्व्यूढा च । तयोर्निर्व्यूढा यथा—

‘किं गौरि मां प्रति रुषा ननु गौरहं किं कुप्यामि कां प्रति मयीत्यनुमानतोऽहम् ।