304

अत्र य एव प्रश्नाः कः स योजनपादः कः स यो दण्डानां द्वे सहस्रे इत्यादयः त एव ‘क्रोशो योजनपादः’ ‘कोदण्डानां द्वे सहस्रे’ इत्यादीन्युत्तराणि भवन्ति । एवं ‘का काली का मधुरा किं शुकपृथुकाननच्छायम्’ इत्युत्तरं किमभिहितशेषस्य प्रष्टव्यमिति पृष्टप्रश्नम् ॥

उत्तरप्रश्नं यथा—

‘किं वसन्तसमये वनभक्षः पृष्टवान्स पृथुलोमविलेखः ।
उत्तरं च किमवापतुरेतौ काननादतिमिरादपि काली ॥ ३७७ ॥’

अत्र प्रश्नस्य हे काननाद हे तिमिराद पिकालीत्येतदेवोत्तरं भवतीत्युत्तरप्रश्नमिदम् ॥

यद्विधौ च निषेधे च व्युत्पत्तेरेव कारणम् ।
तदध्येयं विदुस्तेन लोकयात्रा प्रवर्तते ॥ १३८ ॥
काव्यं शास्त्रेतिहासौ च काव्यशास्त्रं तथैव च ।
काव्येतिहासः शास्त्रेतिहासस्तदपि षड्विधम् ॥ १३९ ॥

तेषु काव्यं यथा—

‘यदि स्मरामि तां तन्वीं जीविताशा कुतो मम ।
अथ विस्मृत्य जीवामि जीवितव्यसनेन किम् ॥ ३७८ ॥’

तदिदमुक्तिप्राधान्यात्काव्यमित्युच्यते ॥

शास्त्रं यथा—

‘स्निग्धोन्नताग्रतनुताम्रनखौ कुमार्याः पादौ समोपचितचारुनिगूढगुल्फौ ।
श्लिष्टाङ्गुली कमलकान्तितलौ च यस्या- स्तामुद्वहेद्यदि भुवोऽधिपतित्वमिच्छेत् ॥ ३७९ ॥’

अत्र स्निग्धत्वादेः शब्दस्य प्राधान्यमिति शासनाच्छास्त्रमिदम् ॥