155

पद्यादौ मिश्रे द्रुतविलम्बिता यथा—

‘असौ विद्याधारः शिशुरपि विनिर्गत्य भवनादिहायातः संप्रत्यविकलशरच्चन्द्रमधुरः ।
यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुवलयितवातायनमिव ॥ २४ ॥’

अत्र बालसुहृदा मकरन्देन सह विद्यामान्वीक्षिकीमधीते स एष माधवो नाम इति ॥

असाविति । दूतीकल्पे कयाचित्प्रच्छन्नप्रार्थनीयया ‘आसंभोगमुन्नयेत्’ इत्याम्नातम् । तदिहोत्प्रेक्षामनोहरग्राम्यमालोकनमुक्तम् । तेनैकस्मिन्वर्णनीयवस्तुनि वृत्तप्रपञ्चेनोक्ते प्रकृतसंगतिमात्रं गद्येन कृतवतीति युक्तेयमानुपूर्वी वाक्यैकवाक्यता चेति ॥

वैदर्भादिकृतः पन्थाः काव्ये मार्ग इति स्मृतः ।
रीङ्गताविति धातोः सा व्युत्पत्त्या रीतिरुच्यते ॥ २७ ॥

वैदर्भादीति । गुणवत्पदरचना रीतिः । गुणाः श्र्लेषादयः काव्याव्यभिचारिणो नव । तेषामन्योन्यमीलनक्षमतया पानकरस इव, गुडमरिचादीनां खाडव इव मधुराम्लादीनां यत्संमूर्च्छनरूपावस्थान्तरगमनं तत्संस्कारादेव हि लोकशास्त्रपदरचनातः काव्यरूपा च रचना व्यावर्तते । अत एव मृग्यते कविभिरासंसारमिति मार्गपदेनोच्यते । वैदर्भादयो विदर्भादिदेशप्रभवास्तैः कृतमुखहेवाकगोचरतया प्रकटितो न तु तत्तद्देशैः काव्यस्य किंचिदुपक्रियते ॥ पन्था इति । प्रतिष्ठन्ते हि महाकविपदवीलाभार्थिन इति । ईदृशमेव रीतिलक्षणमानन्दवर्धनादीनामपि मतम् । एतदुपलक्षणतया सूत्रं व्याख्यातम् । कथं पुनरुक्तमुपमादे रीतिपदं प्रवृत्तमित्यत आह—रीङ् गताविति । रियन्ते परम्परया गच्छन्त्यनयेति करणसाधनोऽयं रीतिशब्दो मार्गपर्याय इत्यर्थः ॥

एवं सिद्धे सामान्यलक्षणे विभागमाह—

वैदर्भी साथ पाञ्चाली गौडीयावन्तिका तथा ।
लाटीया मागधी चेति षोढा रीतिर्निगद्यते ॥ २८ ॥