305
इतिहासो यथा—
‘हिरण्यकशिपुर्दैत्यो यां यां स्मित्वाप्युदैक्षत ।
भयाभ्द्रान्तैः सुरैश्चक्रे तस्यै तस्यै दिशे नमः ॥ ३८० ॥’
सोऽयमतीतार्थप्राधान्यादितिहासः ॥
काव्यशास्त्रं यथा—
‘नान्दीपदानि रतनाटकविघ्नशान्ता-
वाज्ञाक्षराणि परमाण्यथवा स्मरस्य ।
दष्टेऽधरे प्रणयिना विधुताग्रपाणि
सीत्कारशुष्करुदितानि जयन्ति नार्याः ॥ ३८१ ॥’
अत्र काव्येन शास्त्रमभिहितमितीदं काव्यशास्त्रम् ॥
काव्येतिहासो यथा—
‘स संचरिष्णुर्भुवनान्तरेषु यां यदृच्छयाशिश्रयदाश्रयः श्रियाम् ।
अकारि तस्मै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ३८२’
अत्र प्रागुक्तस्यैवेतिहासार्थस्य काव्येनाभिधानात्काव्येतिहासोऽयम् ॥
शास्त्रेतिहासो यथा—
‘धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥ ३८३ ॥’
अत्र धर्मार्थकाममोक्षाणामितिहासनिवेशितत्वादयं शास्त्रेतिहासः ॥
श्रव्यं तत्काव्यमाहुर्यन्नेक्ष्यते नाभिधीयते ।
श्रोत्रयोरेव सुखदं भवेत्तदपि षड्विधम् ॥ १४० ॥
आशीर्नान्दी नमस्कारो वस्तुनिर्देश इत्यपि ।
आक्षिप्तिका ध्रुवा चेति शेषो ध्येयं भविष्यति ॥ १४१ ॥